SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Jain Education I I स ताम्बूलपदे न्यास्थन्मुखे बब्बुलवल्कलम् । गृहस्थोऽपि तपस्वीव, प्रायो मूलफलाशनः ॥ १० ॥ व्ययभीरू रयादेव, देवसद्मनि न क्वचित् । न गीते न च सङ्गीते, व्यासगी क्षणमप्यभूत् ॥ ११ ॥ प्रायो ऽविहितकौपीनः, पीनतृष्णो वनेऽभ्रमत् । तृणकाष्ठकृते काष्ठाभ्रष्टः कष्टानि सासहिः ॥ १२ ॥ | भिक्षाकान् वीक्ष्य धाम्नोऽदात्कपाटयुगलं पुरा । सोऽर्गलां गलहस्तं च ततो गालीरनर्गलाः ॥ १३ ॥ पञ्चवस्तुप्रदोऽप्येवं, मार्गणेभ्यस्तथाप्यहो । अदातैव जने ख्यातो, न यत् पुण्यैर्विना यशः ॥ १४ ॥ युग्मम् । कपर्दिकाव्ययेऽप्यस्य, कारिते स्वजनैर्बलात् । मुखैः सप्तभिरभ्येति, ज्वरः प्राणहरस्तदा ॥ १५ ॥ एतस्य पश्यतो दानं दीयते चेत्परैरपि । तदाप्यस्य शिरः पीडा, जाता व्रीडाकरी जने ॥ १६ ॥ अमुष्य धनिमुख्यस्यादुष्यदेवोदरं द्रुतम् । भुक्ते स्निग्धे विवाहेष्वप्यतीसारकिणो यथा ॥ १७ ॥ समाल्यचन्दनादीनां भोगं रोगमिवात्यजत् । ततः खजनवर्गेण, त्यक्तश्चाण्डालकूपवत् ॥ १८॥ १ अतिसाररोगवतः । For Private & Personal Use Only jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy