________________
दानक.
॥१३॥
अथ तृतीयः पल्लवः अथ तातप्रयुक्ताभिस्ताभिरुक्तिभिरज्वलन् । मुद्गशैला इवाम्भोदधाराभिस्ते त्रयोऽधिकम् ॥ १॥ ऊचुः प्रचुरवाचश्च, तात ? सम्यग् विचारय। पणेनार्जि द्विलक्षी यत्तद्यूतं न वणिक्कला ॥२॥ द्यूतव्यसनविज्ञस्य, तद्धन्यस्य कथं वयम् । सहेमहि गुणश्लाघां, व्यवसाययवा पुनः ॥३॥ तैरित्युक्ते पुनर्भाग्यपरीक्षार्थ पितार्पयत् । वाणिज्याय चतुर्योऽपि, वर्णमाषान् शतं शतम् ॥ ४॥ आद्यास्त्रयोङ्गजामाद्यद्भाग्यमान्याः क्रयोद्यताः । आशु निर्गमयामासुर्मूलद्रविणमप्यमी ॥ ५॥ धन्यः वर्णादिवाणिज्यसञ्जाताऽशकुनः पुनः । पूर्वपुण्यप्रणुन्नोऽगात्काष्ठपीठीचतुष्पथम् ॥६॥ इतश्च-पुरि तत्रासीदानत्रासी धनाभिधः । श्रेष्ठी षट्पष्टिकोटीशः, कोटीरः कृपणात्मनाम् ॥७॥ जीर्ण शीर्ण परैस्त्यक्तं, वस्ते वासः स दासवत् । शुभमन्नं न चानाति, न च नाति कदाचन ॥८॥ चीनकांश्चनकान् वल्लास्तैलं चाप्यश्नतां नृणाम् । संख्यातिगधनोऽप्येष संख्याति कवलानपि ॥९॥ १ व्यवसायबलिनः । २ कुत्सितधान्यम् ।
॥१३॥
in Eduentan Interational
For Private & Personel Use Only
Mainelibrary.org