SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ दानक० ॥ ११ ॥ Jain Education Interna नृपः प्राह किमेकाकी, त्वं वने विजने स्थितः १ । गृहिवेषवनेवासौ, द्वयं भद्रं न संगतम् ॥ ४४ ॥ सोऽवक् प्रचेता हे राजन्!, क्लेशो लेशोऽपि जन्तुभिः । खदोषैरेव संसारे, प्राप्यते नात्र संशयः ॥४५॥ प्रायो जल्पन्त्यसंबद्धमात्मोत्कर्षपरा नराः । तच्छ्रुत्वा जायतेऽत्यन्तं ममेर्ष्या दुःखकारिणी ॥ ४६ ॥ तां निरोद्धुमत्तोऽहं शिरोऽर्तिमिव दुस्सहाम् । अकुहयं स्वमूर्द्धानं व्रणधोरणिजर्जरम् ॥ ४७ ॥ अस्यां वने ततोऽत्रये, शून्ये नेर्ष्या हि संभवेत् । कारणानामसद्भावे, किं कार्यं जातु जायते ? ॥४८॥ निशमय्येति भूपालः, कृपाकूपारमानसः । तदीयदुःखसंक्रान्त्या, विव्यथे दिव्यविक्रमः ॥ ४९ ॥ बहुश्रुताः सतामत्त, भवन्त्येव समार्तयः । दुष्यताक्ष्णा समं कर्णौ, सहेते पट्टकव्यथाम् ॥ ५० ॥ उपकारं स्मरंस्तस्य, कृतज्ञजनशेखरः । उद्धरिष्यंस्ततः प्राण, चेतसीति व्यचिन्तयत् ॥ ५१ ॥ उत्तारितं तृणं मून, येन तस्यापि तन्यते । उपकारः किमेतस्य पुनः सर्वोपकारिणः ॥ ५२ ॥ स्वर्णदानं धरादानं, कन्यादानं तथैव च । अन्नदानस्य कोट्यंशं, वेलादत्तस्य नार्घति ॥ ५३ ॥ यतः - क्षुधाक्लीवस्य जीवस्य पञ्च नश्यन्त्यसंशयम् । सुवासनेन्द्रियबलं, धर्मकृत्यं रतिः स्मृतिः ॥ ५४ ॥ For Private & Personal Use Only द्वि० प० ॥ ११ ॥ ainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy