SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ दानक० ॥ १० ॥ Jain Education उक्तं च-मिलिते लोकलक्षेऽपि येन लभ्यं लभेत सः । शरीरावयवाः सर्वे, भूष्यन्ते चिबुकं विना ॥२२॥ | विना भाग्यं वरं वस्तु, वृद्धत्वेन न लभ्यते । अब्धिमन्थोत्थरत्नेषु, विषमासीन्महेश्वरे ॥ २३ ॥ विना भाग्यं न सौभाग्यं, शुभान्वयभुवामपि । अमृतादपि संजातः पङ्कः पादैः प्रमृद्यते ॥ २४॥ लोकेऽप्युक्तम् अपि रत्नाकरान्तः स्थैर्भाग्योन्मानेन लभ्यते । पिबत्यौर्वोऽम्बुधेरम्बु, ब्राह्मीवलयमध्यगम् ॥ अत्युन्नतैः सहासूया, स्वविनाशाय जायते । शरभस्याङ्गभङ्गः स्यान्मेघायासूयतो न किम् ? ॥ २६ ॥ दृष्ट्वा श्रुत्वापि योऽन्येषामुत्कर्षं मत्सरी भवेत् । नैव दैवहतः स स्यात्, सुखी पङ्कप्रियो यथा ॥ २७ ॥ तथाहि -अरातिभिरयोध्यायामयोध्यायामभून्नृपः । इक्ष्वाकुवंशजः काकुः, काकुत्स्थ इव नीतिमान् ॥२८॥ ॥ पङ्कप्रियाभिधानोऽत्र, कुम्भकारोऽभवत् पुरे । वदान्यजनमूर्धन्यो, लक्ष्मीवान्विनयी नयी ॥ २९ ॥ ईष्योंद्रेकात्परं यस्य, गुणः सर्वोऽप्यदृष्यत । क्षारत्वतोऽर्णवस्येव, चन्द्रस्येव कलङ्कतः ॥ ३० ॥ यदि कस्यचिदुत्कर्षः, प्रोच्यते तस्य शृण्वतः । तदेर्ष्ययास्य जायेत, दुर्निवारा शिरोव्यथा ॥ ३१ ॥ गुणान् स्वस्य परेषां वा, स जनान् वीक्ष्य जल्पतः । तान्निषेद्धमशक्तः स्वं शिरोऽकुट्टयदीर्ष्यया ॥ ३२ ॥ For Private & Personal Use Only द्वि० प० २ ॥ १० ॥ w.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy