SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Jain Education लक्षणैः सबलं स्वीयं, वृष्णि निश्चित्य कृत्यवित् । राजपुत्रहुडेनासौ, पणपूर्वमयोधयत् ॥ ११ ॥ धन्यः पुण्याधिको लक्षं, खहुडेन जितेऽग्रहीत् । यतो द्यूते रणे वादे, यतो धर्मस्ततो जयः ॥ १२ ॥ दध्यौ च राजसूश्चेन्मे, हुडोऽयमजडो भवेत् । सदार्जामि तदा लक्षां, लक्षां लक्षपणाद्रणे ॥ १३ ॥ तेन पृष्टोऽवदद्धन्यो, रैलक्षं वक्रयं हुडोः । जिघृक्षौ कायके मूल्यं, वणिजो वर्धयन्ति यत् ॥ १४ ॥ जगृहे सस्पृहेणाथ, लक्षेणापि हुडोऽमुना । अपेक्षतेऽर्थितामर्थो, न ऋयाणकरम्यताम् ॥ १५ ॥ द्विलक्षीलाभतो धन्यो, बलक्षीवो गृहं गतः । वलक्षीभूतसत्कीर्त्तिर्विलक्षीकृतशात्रवः ॥ १६ ॥ तुष्टुवुः खजनाः सर्वे, धन्यमेव श्रितोदयम् । य एवोदयते वन्द्यः, स एवात्र प्रगेऽर्कवत् ॥ १७ ॥ श्रुत्वा जनैःकृतां धन्य- प्रशंसामधिकाधिकाम् । त्रयोऽपि बन्धवोऽभूवन्मषिधानसमाननाः ॥ १८ ॥ असूयातापितान् प्राह, हितमेवं पितापि तान् । सौजन्यं संपदां बीजं, पुत्रा ! दौर्जन्यमापदाम् ॥ १९ ॥ परं प्रौढं द्विषन्मूढो, जने दौर्जन्यमाप्नुयात् । पूर्णचन्द्रद्रुहं राहुमाहुः क्रूरं न किं बुधाः ? ॥ २० ॥ कर्मैककर्तृके विश्वे, विश्वेषां स्यान्न वाञ्छितम् । तदा विशन्ति विद्वांसः, किमसूयास्पृशं दिशम् ॥ २१ ॥ For Private & Personal Use Only w.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy