________________
Jain Education
प्राग् मयापीदृशी माया, जनरञ्जनकारिणी । बहुशो बहुशोभार्थं, भुक्ता मुक्ता च सम्प्रति ॥ १६८ ॥ एवमुक्त्वा गते तस्मिन्नीर्ष्यासङ्गिनि लिङ्गिनि । इति दध्यौ स्फुरत्कोपाटोपा सोपासिका हृदि ॥ १६९ ॥ नैर्गुण्यमेकमेतस्य, भुवनेऽपि न माति यत् । अनुत्सार्यं च मास्तर्यं, काञ्जिकं कुथितं च तत् ॥ १७० ॥ गुणिनामग्रणीराद्यो, द्वितीयो गुणरागिणाम् । लोके पूज्यतमावेतावुभावपि शुभाशय ॥ १७१ ॥ | दोषव्यापी च पापीयास्तृतीयो गुणमत्सरी । अद्रष्टव्यमुखो नूनं, न पूजादिकमर्हति ॥ १७२ ॥ ॥ चतुर्भिः कलापकम् ॥ गुणरागी गुणीवाथ, निगुर्णोऽपि तया त्रती । यथावत्पूजितो नित्यं, दूरादौज्झि च मत्सरी ॥ १७३ ॥ वत्सास्तत्साधुवादेच्छा स्खलतां तद्वदन्वहम् । उत्सार्य गुणमात्सर्य, भजध्वं गुणरागिताम् ॥ १७४ ॥ एतामुदाहरणचारुगुणानुरागसंबोधनीं मधुमुत्रं धनसारवाचम् ।
आकर्ण्य निर्वृजिनकीर्तितधन्य भाग्यास्त्रिभ्रातृवर्जमदधुः खजनाःप्रमोदम् ॥१७५॥ ( वसन्ततिलका) इतिश्रीतपागच्छनायकश्रीपरमगुरु श्री सोमसुन्दर सूरिविनये श्री जिनकीर्तिसूरिप्रणीते श्रीदानकल्पद्रुमे भक्तदानाख्यप्रथमशाखायां धन्यकथाशालिन्यां स्वर्णलक्षोपार्जनो नाम प्रथमः पल्लवः ॥ १ ॥
For Private & Personal Use Only
Jainelibrary.org