SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ दानक० ॥ ८ ॥ Jain Education I सोप्रधैर्यः क्व कल्याणि ! प्राणितेऽपि गतस्पृहः । हीनसत्त्वः पुनः काहं, देहलालनलालसः ॥ १५७॥ क सृगालः क्क पारीन्द्रबालः फालहतद्विपः । खद्योतपोतः क्कोद्योतः चण्डप्रद्योतनः कच ? ॥ १५८ ॥ तात्त्विकः स मुनिः सर्वगुणरत्नविभूषितः । नाममात्रधरोऽहं तु भद्रे ! चञ्चापुमानिव ॥ १५९ ॥ एवमुक्त्वागते तत्र साधौ, सा धौतसंशया । व्यचिन्तयदहो धन्यौ, द्वावपी मौ यदुच्यते ॥ १६० ॥ नागुणी गुणिनं वेत्ति, गुणी गुणिषु मत्सरी । गुणी च गुणरागी च, विरलः सरलो जनः ॥ १६१ ॥ गुणिनोऽपि निरीक्ष्यन्ते, केऽपि केऽपि नराः क्वचित् । गुणानुरागिणः किंतु, दुर्लभास्त्रिजगत्यपि ॥ १६२॥ स्वस्तुतेः परनिन्दायाः, कर्ता लोकः पदे पदे । परस्तुतेः स्वनिन्दाया, कर्त्ता कोऽपि न विद्यते ॥ १६३ ॥ इतश्च विगोपितव्रतः कोऽपि, पार्श्वस्थः श्रमणोऽपरः । तत्रागाद्गुणिषु स्फूर्जद्वेषो वेषोपजीवकः ॥ १६४ ॥ अन्नपानीयमानीय, प्रत्यलाभि तया ततः । तथैव पृष्टो धृष्टोऽसावब्रवीच्छ्रमणब्रुवः ॥ १६५ ॥ मायाकार इवाचारैः प्रथमो जनरञ्जनः । पटुचाटुपरो भद्रे !, वनीपक इवापरः ॥ १६६ ॥ अहं त्वहंङ्कृतित्यागी, दम्भसंरम्भवर्जितः । यथालब्धान्नपानादि, ग्रहीता न कदाग्रही ॥ १६७ ॥ For Private & Personal Use Only प्र० प० १ ॥ ८ ॥ jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy