SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter परोपकारधौरेय !, त्वत्प्रसादेन सम्प्रति । भवामो वणिजः सर्वे, पण्यैः पूर्णमनोरथाः ॥ १२४ ॥ गृहीत्वा स्वर्णलक्षं स, स्थूललक्षशिरोमणिः । तेभ्यः समये पण्यानि धन्यः स्वगृहमागमत् ॥१२५॥ अथ हेमसहस्रेण, भोज्यवस्तून्यमेलयत् । सूपकारैकसारश्च सूपकारैरकेलयत् ॥ १२६ ॥ ततो निमन्त्रयामास, स्वजनान् भोजनाय सः । तेऽप्यायाता यथास्थानं, सर्वे भोक्तुमुपाविशन् ॥१२७॥ स्थालिकासूपनीतासु, बालिकाः पर्यवेषयन् । प्राक् फलावलिकास्तृप्तिमालत्याः कलिका इव ॥ १२८ ॥ सुखास्वाद्यानि खाद्यानि, मोदकाँश्चित्तमोदकान् । घृताचितास्तथा स्वर्गचिताः स्वर्गादिव च्युताः ॥ १२९ ॥ घृतपूरान् वपूरागहेतून् केतूनिव क्षुधाम् । रसश्रीमण्डकान् खण्डखचितानपि मण्डकान् ॥ १३० ॥ सौरभ्यशालिनः शालीन्, कलमानलमायतान् । रोचकस्य समुद्गाँश्च मुद्गान्मुद्गाविव श्रियाः ॥ १३१ ॥ ज्यायः परिमलप्राज्यान्याज्यानि व्यञ्जनाधिकम् । संरम्भानिव हासस्य, करम्भान् भुक्तिसुस्रुवः ॥ १३२ ॥ हृष्टाः सर्वे मध्यवेश्माऽजिरे बुभुजिरे च ते। ततोऽनुकूलैस्ताम्बूलैर्मुखशोभाश्च भेजिरे ॥ १३३॥ षड्भिः कुलकम् शेषद्रव्यव्ययाद्भ्रातृजायानां स व्यधापयत् । सारा हारार्धहाराद्याः, कृती रत्नालङ्कृतीः ॥ १३४ ॥ For Private & Personal Use Only inelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy