________________
दानक. ॥६॥
भुङ्क्ते यावदसौ तावद, कुर्वे तत्पण्यमात्मसात् । गत्वा सार्थस्य मध्येऽहं, श्रीणां बीजं यदुद्यमः ॥११३॥ ध्यात्वेति कृतशृङ्गारश्चतुरः स तुरङ्गमम् । आरुह्य प्राचलत्साभिमुखं मित्रसंयुतः ॥ ११४ ॥ सार्थसार्थस्य सार्थस्याधिनाथस्यामिलत्पथि । बहुप्रायां भुवं गत्वा, यामार्धे प्रथमेऽथ सः ॥ ११५॥ विधाय कुशलालापं, धन्यः पप्रच्छ सार्थपम् । भाण्डवरूपसंख्यादि, सोऽप्याह च यथास्थितम् ॥११॥ श्रेष्ठिसूहस्तसंज्ञाभिः, स्वमित्रैः सार्थिकैरपि । विहिताभिः कृते मूल्यमेले शैलेशनिश्चले ॥ ११७ ॥ सर्वं दृष्टयाहतीकृत्य, पण्यं चक्रे तदात्मसात्। सत्यङ्कारपदे चादात्, स्वकीयां मणिमुद्रिकाम् ११८ युग्मम् । भुक्त्वा ततोत्सुकस्तावन्, महेभ्यः स महेश्वरः । परेऽपि नैगमाः सार्थागमं ज्ञात्वा तथाऽऽगमन् ॥११९॥ प्रागल्भीभूय संभूय, भूयःपण्यार्थवादिभिः । अयाचि वाचिधीरस्तैः, सार्थनाथः क्रयाणकम् ॥ १२० ॥ स प्राह सार्थवाहस्तान् , भद्रा भद्राणि सन्तु वः। किं कुर्वे पूर्वमेवैतद्वन्यस्यास्य मयार्पितम् ॥ १२१॥ सत्यङ्कारोऽपि चाग्राहि, समग्राहितनिर्णयः। एवमप्यन्यथा कर्वे, चेदकीर्तिस्तदा भवेत ॥ १२२ ॥ तेऽथाधन्यमन्यतमा, धन्यमभ्यागता जगुः । भाण्डमर्पय लाभस्य, हेमलक्षं गृहाण च ॥ १२३ ॥
2546452
Jain Education
For Private
Personal Use Only