SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Jain Education किं चासौ स्वल्पलाभेऽपि, सार्थेशः स्वक्रयाणकम् । हेतोः कुतोऽपि विक्रीय, स्वस्थानं गन्तुमुत्सुकः ॥१०२॥ तन्मित्र ! शीघ्रमागम्यमस्य सार्थस्य सम्मुखम् । क्रयाणसदृकं कार्यं, लाभस्ते भविता महान् ॥ १०३ ॥ एवंविधाभिधेयांश्च, लेखान् प्राहिणवं बहून् । त्वं नैकमपि तं प्राप, पापः स्वर्णनिधिं यथा ॥ १०४ ॥ वाचयित्वेति लेखार्थमवधार्याप्यनार्यवत् । प्रभातेऽपि क्षुधार्तोऽसौ चेतस्येवमचिन्तयत् ॥ १०५ ॥ दुष्प्रापागण्यपण्याढ्यः, सार्थ आसन्न आगतः । परमद्यापि जानाति, नातिव्यग्रोऽपरो वणिक् ॥ १०६ ॥ | तावत्क्षुधार्दितो भुक्त्वा, भवामि स्वस्थमानसः । धियः स्वस्थे यतश्चित्ते, धीसाध्यं च क्रयादिकम् ॥ १०७॥ पश्चाद्द्रुततरं गत्वा, सार्थनाथस्य सम्मुखम् । एकाक्येव ग्रहीष्यामि, क्रयाणान्यखिलान्यपि ॥ १०८ ॥ क्रीतैः क्रयाणकैरेतैर्लाभो भूयान् भविष्यति । अनस्तिरस्ति सर्वेषामेषामत्र पुरे यतः ॥ १०९ ॥ महेश्वरो विचिन्त्येति, भोजनाय गृहं गतः । अपवाद इवोत्सर्ग, यत्सर्वं बाधते क्षुधा ॥ ११० ॥ पृष्ठौ स्वच्छस्य भूर्जस्य, वर्णालिं प्रतिबिम्बिताम् । धन्योऽपि गोपिताकारो, वाचयित्वेत्यचिन्तयत् ॥ १११॥ अहो रहो वयस्येन, ज्ञापितोऽप्येष लेखतः । मूढः प्राग् भुक्तये प्राप्तो नैव वाणिज्ययुक्तये ॥ ११२ ॥ For Private & Personal Use Only w.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy