________________
दानक०
॥५॥
Jain Education In
644
महत्युपक्रमेऽप्यस्य, लाभोऽभूत्स्वल्प एव यत् । कर्माणि प्राणिना दद्युः फलं नोपक्रमाः पुनः ॥ ९९ ॥ बुभुक्षाभजने महान्, वलांस्तल्ला भजैर्धनैः । तैलादि च समानीय, स कुटुम्बमभोजयत् ॥ ९२ ॥ अद्वितीयोद्यमावेवं, द्वितीयकतृतीयकौ । तज्जातीयां ददाते स्वैर्भुक्तिं स्वस्खदिनेऽर्जितैः ॥ ९३ ॥ न्ययुक्त भुक्तिदानेऽथ, चतुर्थेऽह्नि चतुर्थकम् । जनको धनकोटीनामर्जने सज्जमात्मजम् ॥ ९४ ॥ गृहीत्वा त्रिंशतं स्वर्णमाषानाषाढमेघवत् । सोऽगाञ्चतुष्पथाम्भोधिं, धनं जीवनमर्जितुम् ॥ ९५ ॥ महेश्वरमहेभ्यस्य, तत्रायं शकुनैः शुभैः । हट्टे भाग्यवशायाय, व्यवसायाय जग्मिवान् ॥ ९६ ॥ | महेश्वरस्तदा मित्रलेखं प्रेष्यकरागतम् । गोप्याभिधेयमुन्मुद्य, मौनेनैवमवाचयत् ॥ ९७ ॥ स्वस्तिलक्ष्मीप्रतिष्ठाने, श्रीप्रतिष्ठानपत्तने । मित्रं महेश्वरं सार्थस्थानान् मित्राभिधो वणिक् ॥ ९८ ॥ आलापयति सस्नेह, यथा स्वस्तिप्रथास्ति मे । लेखाः प्रेष्यास्त्वया श्रेयोमयाः कार्यमथोच्यते ॥ ९९ ॥ औत्तराहः सार्थवाहः, पयोवाह इवोन्नतः । अगण्यपण्यपुण्यार्णः पूर्णस्तत्रैति पुर्यसौ ॥ १०० ॥ | दत्तदौःस्थ्यप्रयाणानि, क्रयाणान्यत्र बान्धव ! । महेभ्यार्हाणि सर्वाणि, सार्थे सन्तीति निश्चिनु ॥ १०१ ॥
For Private & Personal Use Only
प्र० प०
१
॥ ५ ॥
ainelibrary.org