________________
दानक.
प्रस्ता०
निरुत्सुकेन चेतसा वाञ्छन्ति । न हि कथमपि तेऽसारसंसारजन्यसुखप्राप्त्यर्थमनेकानर्थमर्थ गृह्णन्त्युपकृत्य जीवलोकमतो व्यक्तमेव तेषां स्वपरकार्यसाधनपरत्वम् । किं बहुना? उद्दिधीर्षन्ति महीमण्डलं विविधभंगकैर्वाङ्मनःकायजन्यैर्विश्वजनीनैयापारविशेषैस्तथा चैतैरेव सूरिपादैः श्रीजिनशासनख्यातमहिनो धन्यनाम्नो धनसारव्यवहारिसुतस्य व्यावर्णनपरेण चेतश्चमत्कृतिजनकेनानेन निबन्धेन खलु श्रीजिनप्रणीताविगीतागमनिर्णीतदानधर्मणि दर्शिता कर्तव्यता जगजन्तूनामिति ॥ ___ यद्यपि प्रवचने सुपात्राभयानुकम्पौचित्यकीर्तिरूपं पञ्चप्रकारं दानं व्यावयेते तथापि सद्यो निवृतिदायकत्वात् |सुपात्रदानस्यैव प्राधान्यमिति समयस्तथा चाहुः परमर्षयः
"लब्भइ तिलोयलच्छी, लब्भइ सव्वंपि कामियं सुक्खं ।
इकंचिय नवि लब्भइ, सुपत्तदाणं जगप्पहाणं ॥" | तद्धि न्यायार्जितानां प्रासुकैषणीयानां कल्पनीयानां चान्नपानखादिमस्वादिमवस्त्रपात्रकम्बलौषधभैषज्यादीनां देशकालश्रद्धासत्कारक्रमपूर्वकं परया भक्त्याऽऽत्मानुग्रहबुद्ध्या यन्निवृत्तसर्वावद्येभ्य उत्तमेभ्यः प्रदानम् ।
ते हि खलु वैधकर्मानुष्ठानश्रद्धाबद्धासनारब्धानवद्यभावयज्ञनितांतशांतस्वातविकचरुचिराम्भोजद्युतिमदमोचनलोचनप्रभावखञ्जीकृताखिलमनोरमणीमणिमञ्जीरम तरसिञ्जितारञ्जितहृदोषाकुलसकलमनुजकुलसकलकलुषकषणबद्धपरिकरा निजामृतोपदेशैः करुणारसकल्लोलवरुणालयाः शान्तरसालयाः विद्योद्यानमालिनः प्रचुरगुणशालिनः परया भक्त्या
-
Jain Educational
For Private & Personal Use Only
a.jainelibrary.org