________________
॥ ॐ अर्ह ॥ | प्रस्तावमा ।
दानकल्पद्रुमः ॥
अयं खलु विकराल कलिकालव्यालवदनरदमविषविमूच्छितसत्त्वोज्जीवनसुधासारसंकाशानां स्वप्रतिभाप्रकर्षबलप्रत्याख्यातसुरगुरूणाम्परमगुरूणां श्रीमज्जिमकीर्तिसूरीणां ग्रंथप्रथनप्रयासः साधयति स्वपरोपकृतिप्रकृतिं सहजां पुण्यात्मनाम् ।
तथाच साधयता परकीयं कार्यजातमात्मीयमपि साधितमेवाहुर्महानुभावाः पूर्वतनपुरुषाः । सकलधर्मकर्मणः परोपकारस्यैवासाधारणकारणतया गीयमानत्वादिति । इदमेव हि महिमातिशयतृणीकृताम्बुराशीनां समस्त संगविरतानां निरस्तस्वपराश्रयाश्रयमतीनां भैक्ष्यमात्र भावितात्मसन्तोषाणामचिन्त्य चिन्तामणीनां मुनिससमानां वृत्तेरौचित्यम् । यतस्ते हि भगवन्तस्सकलवुः खितप्राणिप्राणत्राणैकलालसाः परमधर्मानुरक्ता वाङ्मनः काय संयमवन्स सर्वसाधारणमाहारमपि शरीरनिर्वहणायैव गृह्णन्ति, शरीरमपि धर्मसाधनमिति धारयति, धर्ममपि मुक्तिकारणमिति बहुमन्यन्ते, मुक्तिमपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org