SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ दानक० प्र०प० ॥ ४॥ SARSONG2555 त्वयैवारोपिताः प्रौढिं, किं सम्प्रति विगोपिताः । वयं पुरो महेभ्यानां, धन्यस्यैव गुणस्तवात् ॥ ६९ ॥ धन्यमेव गुरूकुर्वन्नस्मान् लघयसि ध्रुवम् । लध्वेकं स्यात्तुलाचेलं, चेद् गुरूक्रियतेऽपरम् ॥ ७० ॥ अपत्येषु च वात्सल्यं, तात! तुल्यं तवोचितम् । सर्वेषु तटवृक्षेषु, सरसः सलिलं यथा ॥ ७१ ॥ सम एव गुणाधाने, पिता तनुभुवा भवेत् । महाव्रतानां सर्वेषां, रेखाप्राप्तो यथा व्रती ॥ ७२ ॥ किंच शास्त्रे निषिद्धासौ, तात! पुत्रगुणस्तुतिः। निषिद्धस्यादृतिः कस्य, वद सौख्याय जायते ? ॥७३ पित्रोच्छृङ्खलितः पुत्रः, कुटुम्बक्षयकृद्भवेत् । काष्ठेनोच्छासितः सर्व, काष्ठजोऽग्निर्न किं दहेत् ? ॥ ७॥ धन्ये काधिकता द्रष्टा !, न्यूनतास्मासु का पुनः? । सदैव दैवतस्येव, स्तूयन्तेऽस्यैव यद्गुणाः ॥ ७५॥ इष्यते वर्धमाना चेत् , मिथः स्नेहलतालता । धन्यश्लाघाग्निरुज्ज्वाल्यस्तात ! नातः परं तदा ॥ ७६ ॥ सोऽपि तान् कुपितान् प्राह, पिता यूयं जलाशयाः। वत्सा ! मत्सामकतकैः, स्वच्छा भवत सम्प्रति॥७७॥ है। पुत्राः कुत्रापि किं द्रष्टा, सदसद्व्यक्तिमूढता । विशुद्धोभयपक्षस्य, हंसस्येव शुचेर्मम ? ॥ ७८॥ आभूपगोपं मे ख्याता, सुसमीक्षितकारिता । स्तूयन्तेऽतः परीक्ष्यास्य, साक्षात्ततो मया गुणाः॥७९॥ ॥४ ॥ Jain Education H For Private & Personel Use Only R ajainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy