SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Jain Education कुर्मो विपणिवाणिज्यं, वाणिजप्राणितं सदा । दद्मः सामन्तभूपेभ्यः, कुसीदेन धनं बहु ॥ ६० ॥ चतुरं चतुरङ्गायां, सभायां व्यक्तयुक्तिभिः । नुवानमपि जित्वाऽन्यं, जीर्णं स्वीकुर्महे ऋणम् ॥ ६१ ॥ दुर्जनग्राहदुर्गाहां, पारवश्योर्मिवर्मिताम् । भेजामो राजसेवां च, रेवामिव मतङ्गजाः ॥ ६२ ॥ एवमर्थार्जनोपायान्, विधाय विविधान्वयम् । आनयामः श्रियां कोटिः, कोटीरा व्यवसायिनाम् ॥ ६३ ॥ ॥ सप्तभिरर्थतः कुलकम् ॥ व्रीडाविनाकृतोऽद्यापि, क्रीडां जातु न मुञ्चति । धन्योऽसौ नीतिमाणिक्यं, चाणिक्यं भाणितोऽपि हि ६४ दूरे वाणिज्यकर्माणि, गेहकर्माण्यसौ सुखी । कर्तुमद्यापि जानाति, नातिखेलनलालसः ॥ ६५ ॥ तथापि सा पितः ! कापि, मूढतानुत्तरा तव । यदेष श्लाघ्यते नित्यं वयं निन्द्यामहे पुनः ॥ ६६ ॥ सदसद्व्यक्तिमाधातुं नेष्टे बह्नन्तरेऽपि यः । स हास्यः कस्य नैकस्य, यतो लोकेऽपि गीयते ॥ ६७ ॥ काके कार्ण्यमलौकिकं धवलिमा हंसे निसर्गस्थितिर्गाम्भीर्थे महदन्तरं वचसि यो भेदः स किं कथ्यते । एतावत्सु विशेषणेष्वपि सखे ! यत्रेदमालोक्यते, के काकाः ? खलु के च हंसशिशवो ? देशाय तस्मै नमः ६८ For Private & Personal Use Only jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy