SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ दानक० जनुर्महेभ्य आरभ्य, महेभ्यस्य गृहेऽभ्यगात् । वृद्धिं श्रीर्धनसारस्य, धन्यभाग्यानुभावतः ॥ ४९॥ जनको जनकोटीनां, पुरो धन्यस्य वर्णनम् । चकार निर्विकारात्मा, निषिद्धमपि नीतिषु ॥ ५० ॥ यदुक्तं-प्रत्यक्षे गुरवः स्तुत्याः, परोक्षे मित्रबान्धवाः। कर्मान्ते दासभृत्याश्च, पुत्रा नैव मृताः स्त्रियः॥५१॥ यतःप्रभृत्यसौ जातः, पुत्रोऽस्माकं तदादि भोः । मन्त्राकृष्टेव सम्प्राप्ता, गृहे श्रीः सर्वतोमुखी ॥ ५२ ॥ पौराणां गुणगौराणां, चित्तचौरा गुणा अमी । सङ्ख्यावतापि सङ्ख्यातुं, शक्यन्ते नास्य केनचित् ॥५३॥ भाग्याकृष्टेन केनापि, मगृहे जगृहे किल । धुनानेनामुना दौःस्थ्यमवतारः सुरगुणा ॥ ५४॥ सैवं यथा यथा धन्यं, प्रशशंस तथा तथा । बोभूयामासिवांसस्ते, सासूया अपरे सुताः ॥ ५५॥ प्रकोपवह्नावहाय, स्नेहबाहुल्यमाहुतिम् । विधाय बाहुमुत्तम्भ्य, प्राहुस्ते गर्विता इति ॥ ५६ ॥ नानापण्यैकपात्रेण, यानपात्रेण सागरम् । अवगाहामहे ग्राहा, इवोदाहाय सम्पदाम् ॥ ५७ ॥ पर्यटामः परदेशान्, क्लेशान् सासहयः खयम् । उल्लङ्घय द्रविणापूर्णशकटा विकटाटवीः ॥ ५८ ॥ ग्रीष्मातापितक्षेत्रक्षेत्रारम्भान् प्रतन्महे । अरघट्टांश्च दारिद्यकणपिष्टिघरट्टकान् ॥ ५९॥ ॥ ३ ॥ Jain Educationalital For Private & Personel Use Only S rjainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy