________________
इन्द्रजालकलोत्तालशकुनज्ञानकोविदः । अखर्वगर्वो गान्धर्वे, सङ्गीते गीतगौरवः ॥ ३९ ॥ अविगीतेन गीतेन, गीतेन हृतचेतसाम् । करिणां हरिणानाञ्च, वनान्नेता जनाकुले ॥ ४० ॥ गजाश्वस्य परीक्षासु, शिक्षासु च विचक्षणः । प्रतिमल्लश्च मल्लानां, प्रबुद्धो युद्धयुक्तिषु ॥ ४१ ॥ चक्रव्यूहादिमर्मज्ञो, नर्मनिर्मन्थसोद्यमः । इष्वासविहिताभ्यासः, खगोत्क्षेपकृतश्रमः ॥ ४२ ॥ गान्धिकेऽधिकनैपुण्यः, सौगन्धिकधुरन्धरः । अदूष्यो दृष्यवाणिज्ये, माणिक्यज्ञैः प्रमाणितः ॥ ३॥
वर्णितः स्वर्णवाणिज्ये, मणिकारप्रकारवित् । सोत्साहः सार्थवाहत्वे, सांयात्रिकशिरोमणिः ॥ ४४ ॥ M हेवाकी राजसेवा, धुर्यो देवादिभक्तिषु । अमात्रं मत्रिणामग्र्यो, वियोगेष्वभियोगवान् ॥ ४५ ॥ चतुर्बुद्धिविशुद्धात्मा, विनीतः सर्वनीतिषु । किं बहुक्तेन ? जज्ञेऽसौ, सर्वविज्ञानपारगः ॥ ४६॥
॥ षोडशभिः कुलकम् ॥ सकलानां कलानां स, महसां यशसामपि । गुणानां धिषणानाञ्च, प्रियमेलकतां ययौ ॥ १७॥ गुणैर्बाल्यमतिक्रान्तः, स संक्रान्तः सतां हृदि । तरुणीहरिणीक्रीडावनं यौवनमासदत् ॥४८॥
KAKAIAKSANAKAN*
Jain Education in
For Private
Personel Use Only