SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ दानक० धात्रीभिः प्रेमपात्रीभिर्लाल्यमानोऽथ पञ्चभिः । सौभाग्येनेव वपुषा, स्पर्धमानो मुदेऽभवत् ॥ २८॥ अथाष्टवर्षदेशीयः, श्वोवसीयसदर्शनः । पितृभ्यां लेखशालायां, मुक्तः प्रौढोत्सवादसौ ॥ २९॥ लीलया कलयामास, सकलाः सकलाः कलाः । पूर्वपुण्यानुभावेन, साक्षिमात्रं गुरुः पुनः ॥३०॥ तथाहि-सर्वशास्त्राद्रिपद्यासु, शब्दविद्यासु शिक्षितः। प्रमाणार्णवपारीणः, प्रवीणः कविकर्मणि ॥३१॥ साहित्ये सत्यसाहित्यः, पुराणेष्वपुराणधीः । ज्योतिषे द्योतितोद्योगश्छन्दःकन्दलनीरदः ॥ ३२ ॥ प्रश्नोत्तरविवादेषु, सद्योऽर्पितसदुत्तरः । प्रहेलिकाब्जिनीहेलिरलङ्कारेषु केलिकृत् ॥ ३३ ॥ समस्यासु सदभ्यासान्नमस्याहस्तदर्थिनाम् । नानाभेदाणलिपीनानां, लिपीनां वाचने पटुः ॥ ३४ ॥ सङ्ख्यावेदिषु सङ्ख्यावान् , पटुप्रज्ञो निघण्टुषु । वैद्यके प्राप्तवैशयः, सर्वयोगप्रयोगवित् ॥ ३५॥ जल्पकेलिष्वनल्पश्रीगुंढश्लोकेऽप्यमूढहृत् । नाटकग्रन्थनिकषघृष्टकोशलहाटकः ॥ ३६॥ अन्तर्धानादिविद्यायां, सावधानमनाः सना । औषधीरसमण्यादिकल्पतल्पविलासिधीः ॥ ३७॥ स मत्रतत्रयत्रादिवेदिता खेदिताशुभः । चूडामणिनिमित्तज्ञश्रेणिचूडामणिप्रभः ॥ ३८ ॥ Jain Education irrDI For Private Personal use only Jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy