SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte श्रुत्वा स्वप्राग्भवं शालिर्धन्येन सह धीमता । इदानीमेव वैभारे, पादपोपगमं श्रितः ॥ १०८ ॥ शालिभद्रप्रिया भद्रा, श्रेणिकः सचिवोऽभयः । श्रुत्वेति दुःखिताः प्रापुर्वैभारं धरणीधरम् ॥ १०९ ॥ शिलातले शयानौ तौ वीक्ष्य भद्रा नुषान्विता । रुरोद तारं दुःखार्त्ता, रोदयन्तीतरानपि ॥ ११० ॥ नाजीगणं गणनया, भिक्षुकस्याप्यहं हहा । सुतं जामातरं चौकःप्राप्तौ कल्पद्रुमाविव ॥ १११ ॥ इतिश्रीश्रेणिको भद्रां विषादविषमूच्छिताम् । निजैर्वचनपीयूषैः, सचैतन्यामतन्तनीत् ॥ ११२ ॥ महतां महनीयाऽसि, मानिनीयासि मानिनाम् । वृथा मा स्म कृथाः शोकं, भद्रे वीरप्रसूरसि ॥ ११३ ॥ श्लथयित्वा ततः शोकं, भद्राऽपि मुनिपुङ्गवैौ । प्रणम्य भावतो धाम, जगाम सवधूजना ॥ ११४ ॥ अनुत्तरसुखागारे, विमानेऽनुत्तरे ततः । सर्वार्थसिद्धे तौ जातौ, मासान्ते त्रिदशोत्तमौ ॥ ११५ ॥ तौ त्रयस्त्रिंशतं वार्द्धास्तत्र सौख्यश्रियोऽद्भुताः । भुक्त्वोत्पद्य विदेहेषु, मुक्तिलक्ष्मीमवाप्स्यतः ॥ ११६ ॥ अनुत्तरं दानमनुत्तरं तपो, ह्यनुत्तरं मानमनुत्तरं यशः । धन्यस्य शालेश्च गुणा अनुत्तरा, अनुत्तरं धैर्यमनुत्तरं पदम् ॥११७॥ ( इन्द्रवंशस्थवृत्तम् ) For Private & Personal Use Only ainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy