________________
दानक०
॥६४॥
खर्भोगभङ्गी नृपतिः क्रयाणकं, स्वर्णं च निर्माल्यमभूत् स्रगादिवत् । नरेन्द्रमानेऽप्यपमानचिन्तनं, शालेर्महाश्चर्यमिदं चतुष्टयम् ॥ ११८ ॥ (उपजातिः) सौभ्रात्रमय्यं विविधाश्च बुद्धयः, क्रये मृदादेरपि हेमसिद्धयः । कलासु कौशल्यमतीव शूरता, श्रियो विदेशेऽपि सुखैकसङ्गताः ॥ ११९ ॥ अपि प्रियानमगिरा व्रतातिर्वणिक्जनत्वेऽपि नृपत्वसंपदः । इमानि धन्ये नितरामनुत्तराण्यष्टावपि स्पष्टतराणि विष्टपे ॥ १२० ॥॥ युग्मम् ॥ उपजातिः ॥ दानस्य विश्वातिशयेऽपि हि द्वयोः, स्तवीमि धन्यं सविशेषमेतयोः। प्रियाष्टकं यो युगपत्परित्यजन् बभूव शालेरपि सत्त्ववृद्धिदः ॥ १२१ ॥
अथ प्रशस्तिः । आसंश्चन्द्रकुले पूर्व, श्रीजगच्चन्द्रसूरयः । तपाख्याऽवापि यैर्यावज्जीवाचामाम्लकारिभिः ॥ १२२ ॥ तदन्वये जगवख्यातविशुद्धचरणक्रियाः । आसन् गुणाब्धयः श्रीमद्देवसुन्दरसूरयः ॥ १२३ ॥
॥६४॥
JainEducation hommonal
For Private & Personal Use Only
w.jainelibrary.org