SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ दानक० ॥ ६२ ॥ Jain Education पौरलोके सति श्रुत्वा तद्वृत्तं क्रमतस्ततः । लीलाशालिनते शालिः, संवेगादौत्सुकायत ॥ ७५ ॥ युग्मम् ॥ प्रज्ञाप्य जननीं युक्त्या, विहाय प्रेयसी रयात् । विषमिश्रान्नवद्रौद्राभोगान् भोगान्विमुच्य च ॥ ७६ ॥ श्रीश्रेणिकनरेन्द्रेण, गोभद्रेण च तावता । कृतव्रतोत्सवः शालिरप्यवापजिनान्तिकम् ॥७७॥ युग्मम् ॥ दीक्षितौ श्रीजिनेन्द्रेण, द्वावपीमौ महामुनी । तप्यमानौ तपस्तीत्रं, चिरं मह्यां विजहतुः ॥ ७८ ॥ एकादशाङ्गी सूत्रार्थाध्ययनैकपरायणौ । अचिरेणैव तौ जातौ, गीतार्थो मुनिपुङ्गव ॥ ७९ ॥ एकद्वित्रिचतुर्मासक्षपणादितपो मुनी । द्वादश दीमिमौ तत्वा, प्राप्तौ राजगृहं पुरम् ॥ ८० ॥ अनुत्सुकावनुत्सेको मासक्षपणपारणे । श्रीवीरं तावनुज्ञायै, विनयेन प्रणेमतुः ॥ ८१ ॥ जगाद सादरं वीरः, शालिभद्रं विलोकयन् । भाविनी जननी तेऽद्य, वत्स ! पारणकारणम् ॥ ८२ ॥ निशम्येति गतौ धन्यशाली राजगृहं मुनी । भद्राऽऽवासं च संप्राप्तौ, श्रीजिनेशवचोवशात् ॥ ८३ ॥ प्रददे तत्र धर्माशीः, किन्तु नोच्चैर्न सादरम् । तस्थे च प्राङ्गणे ताभ्यामन्यभिक्षाचरोचितम् ॥ ८४ ॥ पदं नैकं पुरोऽस्थातां, नाख्यातां चापरं पदम् । अकृषातां पुनर्मोनमिमौ सर्वार्थसिद्धिदम् ॥ ८५ ॥ For Private & Personal Use Only न० प० ॥ ६२ ॥ w.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy