________________
151-52
सुवर्णकोटीनिधिषु, व्यवसायेषु वृद्धिषु । षट्पञ्चाशत् षट्पञ्चाशत्प्रमिताश्च प्रतिष्ठिताः ॥ ६६ ॥ हाटकस्याष्टाष्टकोटीरष्टानां च मृगीदृशाम् । कोष्ठागाराणि धान्यानां, तथा शतसहस्रशः ॥ ६७ ॥ मनश्चिन्तितसर्वाङ्गभोगभङ्गिप्रदायिनीम् । चिन्तामणी मणीनन्यानप्यनयां च कोटिशः ॥ ६८॥ सार्थवाहनरेन्द्रार्हा, अपरा अपि भूयसीः । ऋद्धीः स्वजनमित्रादिसंपदोऽपि च तादृशीः ॥ ६९ ॥ तत्क्षणं तृणवत्सर्वे, त्यक्त्वा सत्त्वाधिकस्ततः । प्रतस्थे व्रतमादातुं, चिरयन्ति न सात्त्विकाः ॥ ७० ॥
॥ सप्तभिः कुलकम् ॥ श्रियः पुण्यं रुचः सूर्य, यथा सत्त्वं च सिद्धयः । तथा धन्यं प्रियाः सर्वा, अनुजग्मुः पतिव्रताः ॥७॥ तत् श्रुत्वाऽऽकस्मिकं स्मेरविस्मयैरभयादिभिः। धीमद्भिरपि स श्रीमाननिवार्यव्रतोद्यमः ॥ ७२ ॥ दीनादिभ्यो ददद्दानं, याप्ययानं श्रितःक्षणात्।दान्ताऽऽत्मा वीरपादान्तं, तदैवाऽऽगात् प्रियान्वितः७३
॥ युग्मम् ॥ अहो एतस्य वैराग्यमहो निस्सङ्गरङ्गता । अहो सत्वमहो तत्त्वदृष्टिरित्यद्भुताऽऽकुले ॥ ७४ ॥
- 34
Jain Educat
i
on
For Private & Personel Use Only
www.jainelibrary.org