SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ दानक० ॥ ६१ ॥ अदीर्घसूत्रता सुभ्रु !, प्राणा हि प्रथमे नृणाम् । कार्यसिद्धेः सात्त्विकाना, तात्त्विकाना विशिष्य तु ५५ श्रुत्वेति स्वपतेः सर्वा, गर्वाध्माता गिरः पराः । दयिता मिलिताः स्माहुः, शालिवैराग्यविस्मिताः ॥ ५६ ॥ प्राणितेश ! स्वपाणिभ्यां, सुतरः सागरः परम् । पुम्भिरुम्भितसद्ध्यानैरपीदं दुष्करं तपः ॥ ५७ ॥ जीवाः क्लीबा अपीह स्युर्गेहेशूराः सहस्रशः । स्वल्पा एव परं धीरा, वीरसंहरणे रणे ॥ ५८ ॥ प्रगल्भते न को दीक्षाशिक्षादानाय मानवः । वह्निपानमिव स्वामिन्!, व्रतादानं तु दुष्करम् ॥ ५९ ॥ एतन्नेतर्ब्रतं चेद्रः, प्रत्यभात्सुखदं हृदि । भोगान् रोगानिव त्यक्त्वा, तत्स्वयं किं न सेव्यते ? ॥ ६० ॥ जगौ धन्यो निशम्येति, श्रेयसीः प्रेयसीर्गिरः । भाग्यानि मे सुसौभाग्या ! दिष्टया सम्प्रत्यऽजागरुः ॥ ६१ ॥ उपश्रुतिमिवादाय, भवतीनां गिरं शुभाम् । प्रपद्येऽहं व्रतं कान्ताः ! शान्ता यूयमपि स्त भोः ॥ ६२ ॥ इत्युदीर्य सुधीर्यच्छन्नाश्चर्यं योगिनामपि । पत्नीरपि व्रतादानसावधाना व्यधादसौ ॥ ६३ ॥ स श्रीप्रपञ्चान् ग्रामाणां त्रिपञ्चानथ तान् शतान् । रथेभाश्वगृहाद्वानां पञ्च पञ्च शतानि च ॥ ६४ ॥ वणिक्पुत्रसहस्राणि पञ्च पोतशतानि च । सप्तभूमगृहानष्टौ, प्रेयसीर्गोकुलानि च ॥ ६५ ॥ Jain Education International For Private & Personal Use Only न० प० ॥ ६१ ॥ www.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy