SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Jain Education आर सारपरीवारः, सदलङ्कारवारभृत् । स वैभारगिरिं नन्तुं, भक्तिसंभारतो जिनम् ॥ ४४ ॥ पीयूषयूषसधीचीः, स गिरः पारमेश्वरीः । पीत्वा भवदवोद्भूतं, सन्तापं निरवापयत् ॥ ४५ ॥ द्विगुणीभूतसंवेगः, प्रभुं नत्वा स वेगतः । आजगाम निजं धाम, कामस्थामनिबर्हणः ॥ ४६ ॥ जननीं व्याजहारैवं, स निर्व्याजमनास्ततः । मातः ! सञ्जातसंवेगः, प्रतिपत्स्ये मुनित्रतम् ॥ ४७ ॥ मात्रा मात्राधिकं स्नेहान्मोहात्कान्ताभिरान्तरात् । शालिः प्रज्ञाप्यमानोऽपि न व्यंरसीद्धताशयात् ४८ एकैकामन्वहं नारीं, स्मरस्य नगरीमिव । मोहस्थानमिवैकैक मौज्झत्पल्यङ्गमप्यसौ ॥ ४९ ॥ इतश्च शालिभद्रस्य, सुभद्रा भगिनी तदा । ग्रनाति वेणीमेणीदृग्, भर्तुर्धन्यस्य मूर्धनि ॥ ५० ॥ तस्या दृग्भ्यां तदा पेतुः, कवोष्णा अश्रुबिन्दवः । धन्यस्कन्धद्वये चित्तस्वस्थताशून्यबिन्दवः ॥ ५१ ॥ धन्यः पप्रच्छ किं सुभ्रु ! भवत्या बाष्पविप्रुषः । अकाण्डे पेतुरुत्पातजलदाम्बुकणा इव ॥ ५२ ॥ साऽगदगद्गबं बाला, शालिमें सोदरः सुखी । व्रतं जिघृक्षुरेकैकं, प्रत्यहं त्यजति प्रियाम् ॥ ५३ ॥ | हसित्वा साहसत्त्वाब्धिर्धन्यः स्माह तवाग्रजः । कातरोऽनुनयैषीव, क्रमात्त्यज्यति वल्लभाः ॥ ५४ ॥ For Private & Personal Use Only w.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy