SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ दानक० ॥ ६० ॥ Jain Educatio 1 | दिव्यैर्गोभद्रगीर्वाणदत्तैर्विविधवस्तुभिः । सज्जयामास तत्कालं, नव्यां रसवतीमसौ ॥ ३३ ॥ निष्णातैः स्नप्यमानस्य, भूपस्य करतश्श्युता । रुष्टकान्तेव कूपान्तः, पपात मणिमुद्रिका ॥ ३४ ॥ स्फुटाऽभून्मुद्रिका कूपे, यत्रैः कृष्टेषु वारिषु । तत्रैस्तपोभिः पापेषु, चेतनेव परात्मनि ॥ ३५ ॥ अलङ्कारोच्चये राजा, मुद्रारत्नं व्यलोकत । महेभ्यनागराभ्यर्णे, निःस्वं ग्राम्यमिवागतम् ॥ ३६ ॥ दासीमाह महीपालः कस्यैषा सदलङ्कृतिः ? । सा स्माह शालिभद्रस्य, निर्माल्यं नः प्रभोरिदम् ॥३७॥ तच्छ्रुत्वा विस्मितो राजा, गृहीत्वा मुद्रिकां निजाम् । स्नानानुलिप्तसर्वाङ्गः, प्राप्तो भोजनमण्डपम् ॥३८॥ दिव्या रसवती नव्या, भद्रया परिवेषिता । राज्ञे सपरिवाराय, नानाव्यञ्जनसंयुता ॥ ३९ ॥ भूपालोऽपूर्वमालोक्य, वस्तु बालोचितक्रियः । किमिदं किमिदं वेति, पप्रच्छ निजपुरुषान् ॥ ४० ॥ भुक्त्वोत्थितोऽथ वस्त्राद्यैर्दिव्यैस्तैस्तैः स सत्कृतः । परिवारसखः स्मेरविस्मयो धाम जग्मिवान् ॥ ४१ ॥ | इतश्च वैभारगिरौ, श्रीवीरः समवासरत् । हरन्मोहतमः स्तोममुदयाद्राविवांशुमान् ॥ ४२ ॥ | शालिस्तमागतं पुण्यवासनाशालिमानसः । केकीव जलदं श्रुत्वा, विवेकी मुमुदे तमाम् ॥ ४३ ॥ ational For Private & Personal Use Only न० प० ॥ ६० ॥ wwww.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy