________________
ततो दिव्यमणिस्तम्भचन्द्रशालामनोरमम् । आवासं मगधाधीशः, प्रविवेश तमद्भुतम् ॥ २२॥ शालिभद्रजनन्याऽथ, जननाथः स सत्कृतः । तुरीयभूमौ सौधस्य, सिंहासने निवेशितः ॥ २३ ॥ गत्वा भद्राऽथ सप्तम्यां, भूमौ तनयमाख्यत ।आगच्छ वत्स! खावासे, विद्धि श्रेणिकमागतम् ॥ २४ ॥ आलपत् शालिभद्रोऽपि, कथनीयं किमत्र मे? । गृहाण श्रेणिकं पण्यं, खयमेव यथोचितम् ॥ २५॥ ऐश्वर्यलीलामालोक्य, स्वसूनो वनाद्भुताम् । जहर्ष जननी बाढमहो लीलापतिः सुतः ॥ २६ ॥ श्रेणिको वत्स ! नः स्वामी, न क्रयाणकमेहि तत् । एवं स भणितो मात्रा, दूनो मात्राधिकं हृदि २७४ दध्यौ खामी ममाप्यस्ति, सोऽपि तुल्यकरक्रमः । पुण्यैर्मेऽद्यापि चेन्यूनिस्तत्तान्येव तनोम्यहम् ॥२८॥ |चिन्तयन्निति मात्राऽथ, निन्ये भूमीभुजोऽन्तिके । विनयी स नतो भूपमुत्तमानां ह्ययं क्रमः ॥ २९ ॥ स्नेहेन स निजोत्सङ्गं, भूभुजा स्थापितः क्षणम् । अस्य श्वासोष्मणा जातः, क्षरत्वेदजलाविलः॥३०॥ भूमीभुजा विसृष्टोऽथ, स क्षणं सप्तमं गतः । लोकान्तमिव भव्यात्मा, मुक्तो मोहेन तत्क्षणम् ॥३१॥ क्ष्मापमस्थापयद् भद्रा, भोजनाय जनान्वितम् । भ्रश्यन्ति न महान्तो हि, खोचितप्रतिपत्तितः॥३२॥
Join Education
For Private
Personal Use Only
Bhaw.jainelibrary.org