________________
दानक०
॥५९॥
औरभ्रवाणिजा एवमुक्ता वाणीमभाणिषुः । भद्र ! श्रीशालिभद्रस्य, माता तानाददेऽखिलान् ॥ ११ ॥ वेत्रीत्युक्तो धरित्रीशं, गत्वा सर्व न्यवेदयत् । राज्ञाऽथ पुनराज्ञप्तः, शालिभद्रगृहं गतः ॥ १२॥
अभ्यर्थयत मूल्येन, स भद्रां रत्नकम्बलम् । साऽप्याख्यत् पाटयित्वा तैः, स्नुषाणां प्रोञ्छिताः पदाः॥१३॥ तिच्छ्रुत्वा विस्मितोऽत्यन्तं, स भूपाय व्यजिज्ञपत् । चमत्कृतोऽथ शृण्वानः, शालेर्लीलाद्भतं नृपः॥१४॥
भूपादेशात् पुनःस्थः, शालेरालयमागतः । भद्रां स्माह नरेन्द्रः श्रीशालीभद्रं दिदृक्षते॥१५॥ साऽपि गत्वा नृपायाख्यत्सुकुमारः सुखोचितः । बहिनैति सुतो जातु, खाम्यायातु स्वयं गृहान् ॥१६॥ शालिसौधादथारभ्य, दिव्यैर्मण्डपतोरणैः । भूस्थखर्गोपमं राजगृहं राजगृहावधि ॥ १७ ॥ गोभद्रनिर्मितोदारस्फारशोभं मुहुर्मुहुः । पश्यन् नृपतिराश्चर्योत्फुल्ललोचनमानसः ॥ १८॥ भृशमुत्कण्ठितो द्रष्टुं, लीलावैभवमद्भुतम् । शालेर्दिव्यश्रियं प्रापत्, प्रासादं सपरिच्छदः१९विशेषकम् , तोरणत्रितयं तस्य, प्रवेशे भूभृदैक्षत । सौवर्णकलशज्योतियोतिनीलाश्मनिर्मितम् ॥ २०॥ प्रविशन्निश्चिकायाऽसौ, तत्र स्फाटिककुटिमम् । अम्बुभ्रमकरं मत्रिक्षिप्तपूगध्वनिश्रुतेः॥ २१ ॥
BHAARAK
॥ ५९॥
Jain Education
For Private Personal Use Only
K
w.jainelibrary.org