SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Jain Education अथ नवमः पल्लवः इतश्च वणिजः केऽपि, गृहीत्वा रत्नकम्बलान् । नेपालनीवृतो राजगृहे राजगृहे ययुः ॥ १ ॥ श्रेणिकक्षोणिपालाय, दर्शिता रत्नकम्बलाः । वणिग्भिः खर्णलक्षं च, मूल्यं तेषां प्रकाशितम् ॥ २ ॥ तेषामर्घमिति श्रुत्वा, राजा विस्मितमानसः । प्राह नाहममून् भूरिमूल्यान् लास्यामि कम्बलान् ॥३॥ गजाश्वनररत्नानां, सङ्ग्रहः स्वर्णकोटिभिः । सङ्ग्रामे विजयं दत्ते, कम्बलाः किंबलाः पुनः १ ॥ ४ ॥ श्रुत्वेति क्षोणिपालस्य, वाणिं वाणिज्यकोविदाः । विच्छायवदनाः शालेः, श्रीशालि सदनं ययुः ॥५॥ आशु प्रदर्शयामासुर्भासुरान् रत्नकम्बलान् । शालिभद्रस्य मातुस्ते, षड्तिरभ्यधिकान् दश ॥ ६ ॥ स्वर्णलक्षा बहूर्दत्वा, भद्रा जग्राह कम्बलान् । आर्पिपच्च वधूटीभ्यः, पाटयित्वांहिमाष्टये ॥ ७ ॥ इतश्च किममी नात्ता, मदर्थं रत्नकम्बलाः । राज्ञीतिचिल्लणा राज्ञी, कोपाटोपमपोषयत् ॥ ८ ॥ तज्ज्ञात्वाज्ञापि राज्ञाऽपि, वेत्री भद्र ! व्रज द्रुतम् । वणिग्भ्य एकं रैलक्षाद्रलकम्बलमानय ॥ ९ ॥ धात्रीशवचसा वेत्री, गतो वाणिज्यकारकान् । उवाच याचते भूपो, ह्येवं मूल्येन कम्बलम् ॥ १० ॥ For Private & Personal Use Only v.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy