SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ दानक० प्र०प० ॥१॥ 64%2525*5*5*5*55-25625** तथाहि-अस्ति खस्तिप्रशस्तिश्रीगरिम्णामेकमास्पदम् । नररत्नप्रतिष्ठानं, श्रीप्रतिष्ठानपत्तनम् ॥ ६ ॥ यत्र गोदावरीखेलन्महेलालङ्कतिच्युतः । रत्नैः प्लवागतैर्मन्ये, जज्ञे रत्नाकरोऽम्बुधिः ॥७॥ भीमकान्तगुणस्तत्र, जितशत्ररभन्नपः। भीत्या प्रीत्या च सम्भूयामिर्मित्रैश्च यः श्रितः॥८॥ असिर्धाराधरोऽप्यस्य, नवः कोऽपि सपुष्करः । यद्धारायामहो मनास्तुङ्गाः क्षोणिभृतोऽपि हि ॥९॥ मेनिरे गुरवो बालं, कालं सकलशत्रवः । प्रजाव्रजाश्च तं रामं, कामं पौरपुरन्ध्रयः ॥ १०॥ युग्मम् ॥ यशोगौरेषु पौरेषु, श्रेष्ठी श्रेष्ठीभवन् गुणैः । धनसार इति ख्यातस्तत्र सत्रं श्रियामभूत् ॥ ११ ॥ गुणैर्दानादिकैर्यस्य, वणिक्पुत्रगणैरिव । यशोभिश्च दिशो व्याप्ताः, स्पर्धाबन्धादिवाधिकम् ॥ १२ ॥ स्तोतुं केनापि नापारि, तस्य चित्तस्य चारिमा । यजगत्रयनाथोऽपि, नित्यस्थित्या जिनोऽधिनोत् ॥१३॥ शमशीलवती तस्याजनि शीलवती प्रिया । लज्जासजास्थिमज्जादिवेधिधर्माधिवासना ॥ १४ ॥ यस्याः सौभाग्यशालिन्या, अमालिन्याशयस्थितेः। नोपमायां समायान्ति, स्वःस्त्रियो विक्रियोद्यताः ॥१५॥ तयोस्त्रयो नयोपेताः, सच्चरित्रपवित्रयोः । अङ्गजाः समजायन्त, दारिद्वंमसामजाः ॥ १६ ॥ Jain Education Inter For Private & Personel Use Only Kijlinelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy