________________
॥ अहं॥ श्रेष्ठि–देवचन्द्र-लालभाई-जैनपुस्तकोद्धारग्रन्थाङ्केश्रीमजिनकीर्तिसूरीश्वरनिर्मितदानकल्पद्रुमः
नामक
___ॐ नमो वीतरागाय स श्रेयस्त्रिजगद्ध्येयः, श्रीनाभेयस्तनोतु वः । यदुपज्ञं जयत्येषा, धर्मकर्मव्यवस्थितिः॥१॥ सर्वज्ञोपक्रमं धर्मः, परमं मङ्गलं भवेत् । असौ चतुर्धा तत्रापि, पूर्व दानं प्रशस्यते ॥२॥ विभवो वैभवं भोगा, महिमाथ महोदयः । दानपुण्यस्य कल्पद्रोरनल्पोऽयं फलोदयः॥३॥ दत्ते लक्ष्मीनिदानं यो, दानमानन्दतः कृती । स धन्य इव धन्यात्मा, सम्पदां जायते पदम् ॥ ४॥ दानं दत्त्वापि ये सत्त्वा, निःसत्त्वा अनुशेरते । परत्र दुःखिनस्ते स्युर्यथा धन्याग्रजास्त्रयः ॥ ५॥
Jain Education in
For Private Personel Use Only
ainelibrary.org