________________
दशवैका ० हारि-वृत्तिः
॥ ४६ ॥
Jain Education Inte
त्यर्थः, 'शब्दो' ध्वनिः 'अजीवोद्भवः' अजीवप्रभव इत्यर्थः, विवक्षापूर्वकश्च जीवनिषेधकः शब्द इति मा भूद्विवक्षाया एव जीवधर्मत्वासिद्धिरित्यत आह- 'न च' नैव 'सापि' विवक्षा 'यद्' यस्मात् कारणादू 'अजीवस्य तु' अजीवस्यैव, घटादिष्वदर्शनात्, किन्तु मनस्त्वपरिणता (त्य ) न्विततत्तद्रव्यसाचिव्यतो जीवस्यैव, यतश्चैवमतः 'सिद्ध:' प्रतिष्ठितः 'प्रतिषेधध्वनेः' नास्ति जीव इति प्रतिषेधशब्दादेवेत्यर्थः, 'ततः' तस्मात् 'जीव' आत्मेति, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः ॥ व्याख्यातं प्रत्युत्पन्नविनाशद्वारं, तदन्वाख्यानाच्चोदाहरणमिति मूलद्वारम्, अधुना तद्देशद्वारावयवार्थमभिधित्सुराह
आहरणं तद्देसे चउहा अणुसट्ठि तह उवालंभो । पुच्छा निस्सावयणं होइ सुभद्दाऽणुसट्ठी ॥ ७३ ॥
व्याख्या-उदाहरणमिति पूर्ववद्, उपलक्षणं चेदमन्त्र, तथा चाह- तस्य देशस्तद्देश उदाहरणदेश इत्यर्थः, अयं 'चतुर्द्धा' 'चतुष्प्रकारः, तदेव चतुष्प्रकारत्वमुपदर्शयति- अनुशासनमनुशास्तिः-सद्गुणोत्कीर्त्तनेनोपबृंहणमित्यर्थः, तथोपालम्भनमुपालम्भः - भङ्गयैव विचित्रं भणनमित्यर्थः, पृच्छा-प्रश्नः किं कथं केनेत्यादि, निश्रावचनम्-एक कञ्चन निश्राभूतं कृत्वा या विचित्रोक्तिरसौ निश्रावचनमिति । तत्र भवति सुभद्रा नाम श्रावि कोदाहरणम्, क ? - अनुशास्ताविति गाथाक्षरार्थः ॥ तत्थं अणुसट्ठीए सुभद्दा उदाहरणं-चंपाए णयरीए
१ तत्रानुशास्ती सुभद्रोदाहरणम् - चम्पायां नगर्यो
For Private & Personal Use Only
१ द्रुमपु
ष्पिका०
तद्देशोदाहरणभेदाः
॥ ४६ ॥
jainelibrary.org