________________
दशवैका० हारि-वृत्तिः ॥ ४३ ॥
Jain Education In
सर्वथा साक्षात्परिच्छित्तिमङ्गीकृत्य 'परोक्षमपि' अप्रत्यक्षमपि, अवग्रहादिखसंवेदनतो लेशतस्तु प्रत्यक्षमेवैतत्, एतदुक्तं भवति यथा अश्वादिसङ्क्रान्तिर्न देवदत्ताख्यं धर्मिणमतिरिच्य वर्त्तते, एवमियमप्यौदारिकाद्वैक्रिये तिर्यग्लोकादूर्ध्वलोके परिमितवर्षायुष्कपर्यायादपरिमितवर्षायुष्कपर्याये चारित्रभावादविरतभावे च सङ्कान्तिर्न जीवाख्यं धर्मिणमन्तरेणोपपद्यत इति वृद्धा व्याचक्षते । अन्ये तु द्वितीयगाथापश्चार्द्ध पाठान्तरतोऽन्यथा व्याचक्षते - तत्रायमभिसम्बन्धः, 'एवं तु इहं आये' त्यादिगाथयोपायत एवात्मास्तित्वमभिधायाधुनोपायत एव सुखदुःखादिभावसङ्गतिनिमित्तं नित्यानित्यैकान्तपक्षव्यवच्छेदेनात्मानं परिणामिनमभिधित्सुराह - 'जहवस्साओ' गाथाव्याख्या पूर्ववत् ॥
एवं स जीवस्सवि दव्वाईसंकमं पडुच्चा उ । परिणामो साहिज्जइ पञ्चक्खेणं परोकखेवि ॥ ६६ ॥
पूर्वार्द्ध पूर्ववत्, पश्चार्द्धभावना पुनरियम्-न कान्तनित्यानित्यपक्षयोर्दृष्टाऽपि द्रव्यादिसङ्क्रान्तिर्देवदत्तस्य युज्यते इत्यतस्तद्भावान्यथानुपपत्त्यैव परिणामसिद्धेरिति, उक्तं च- "नार्थान्तरगमो यस्मात् सर्वथैव न चागमः । परिणामः प्रमासिद्ध, इष्टश्च खलु पण्डितैः ॥ १ ॥ घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं, जनो याति सहेतुकम् ॥ २ ॥ पयोव्रतो न दध्यत्ति, न पयोऽत्ति दधिव्रतः । अगोरसव्रतो नोभे, तस्माद्वस्तु त्रयात्मकम् ॥ ३ ॥” इति गाधाद्वयार्थः ॥ उक्तमुपायद्वारमधुना स्थापनाद्वारमभिधित्सुराह— ठवणाकम् एकं दितो तत्थ पोंडरीअं तु । अवाऽवि सन्नढकणहिंगुसिवकयं उदाहरणं ।। ६७ ।।
For Private & Personal Use Only
१ द्रुमपु ष्पिका०
उपाया हरणम्
॥ ४३ ॥
jainelibrary.org