________________
49545555
एवं तु इहं आया पञ्चक्खं अणुवलब्भमाणोऽवि । सुहदुक्खमाइएहिं गिज्झइ हेहिँ अस्थित्ति ।। ६३ ॥ व्याख्या-एवमेव यथा धातुवादादिभिर्द्रव्यादि 'इह' अस्मिल्लोके 'आत्मा' जीवः 'प्रत्यक्षमिति तृतीयार्थे द्वितीया प्रत्यक्षेण 'अनुपलभ्यमानोऽपि' अदृश्यमानोऽपि 'सुखदुःखादिभिः' आदिशब्दात् संसारपरिग्रहो गृह्यते 'हेतुभिः' युक्तिभिः 'अस्ति' विद्यत इति-एवं गृह्यते, तथाहि-सुखदुःखानां धर्मवाद्धर्मस्य चावश्यम-12 नुरूपेण धर्मिणा भवितव्यं, न च भूतसमुदायमात्र एव देहोऽस्यानुरूपो धर्मी, तस्याचेतनत्वात् सुखादीनां च चेतनत्वादिति, अत्र बहु वक्तव्यमिति गाथार्थः॥
जह वऽस्साओ हत्थिं गामा नगरं तु पाउसा सरयं । ओदइयाउ उवसमं संकंती देवदत्तस्स ।। ६४ ॥ __व्याख्या-यथा वेति प्रकारान्तरदर्शने 'अश्वात्' घोटकात् 'हस्तिनं गजं ग्रामात् नगरं तु प्रावृषः शरदं प्रावृट्कालाच्छरत्कालमित्यर्थः, औदयिकाद् भावाद् 'उपशम'मित्यौपशमिकं 'संक्रान्तिः' संक्रमणं सङ्क्रान्तिः कस्य ?-देवदत्तस्य, प्रत्यक्षेणेति शेषः॥
___ एवं सउ जीवस्सवि दव्वाईसंकमं पडुच्चा उ । अस्थित्तं साहिजइ पञ्चक्खेणं परोक्खंपि ॥ ६५ ॥ व्याख्या-एवं' यथा देवदत्तस्य तथा, किम् ? -'सतो' विद्यमानस्य जीवस्यापि द्रव्यादिषु संक्रमः, आदिशब्दात् क्षेत्रकालभावपरिग्रहः, तं 'प्रतीत्य' आश्रित्य 'अस्तित्वं' विद्यमानत्वं 'साध्यते' अवस्थाप्यते । आहसतोऽस्तित्वसाधनमयुक्तम्, न, अव्युत्पन्नविप्रतिपन्नविषयत्वात् साधनस्य, 'प्रत्यक्षेण' अश्वादिसंक्रमेण, स
दश.८
Jain Education Inte
l
For Private & Personel Use Only
Mainelibrary.org