________________
Jain Education Int
सुहदुक्खसंपओगो न विज्जई निञ्चवायपक्खमि । एगंतुच्छे अंमि अ सुहदुक्ख विगप्पणमजुत्तं ॥ ६० ॥
व्याख्या- सुखदुःखसंप्रयोगः, सम्यक् संगतो वा प्रयोगः संप्रयोगः अकल्पित इत्यर्थः 'न विद्यते' नास्ति न घटत इत्यर्थः, क ? - 'नित्यवादपक्षे' नित्यवादाभ्युपगमे संप्रयोगो न विद्यते, कल्पितस्तु भवत्येव, यथाऽऽहुर्नि - त्यवादिनः- “प्रकृत्युपधानतः पुरुषस्य सुखदुःखे स्तः, स्फटिके रक्ततादिवद् बुद्धिप्रतिविम्बाद्वाऽन्ये" इति, कल्पितत्वं चास्य आत्मनस्तत्त्वत एव तथापरिणतिमन्तरेण सुखाद्यभावाद् उपधानसन्निधावप्यन्धोपले रक्ततादिवत्, तदभ्युपगमे चाभ्युपगमक्षतिः, बुद्धिप्रतिबिम्बपक्षेऽप्यविचलितस्यात्मनः सदैवैकस्वभावत्वात् सदैवैकरूपप्रतिबिम्बापत्तेः, स्वभावभेदाभ्युपगमे चानित्यत्वप्रसङ्ग इति । मा भूदनित्यैकान्तग्रह इत्यत आह'एकान्तेन' सर्वथा उत्- प्राबल्येन छेदो - विनाशः एकान्तोच्छेदः - निरन्वयो नाश इत्यर्थः अस्मिंश्च किम् ? -सुखदुःखयोर्विकल्पनं सुखदुःखविकल्पनम्, 'अयुक्तम्' अघटमानकम्, अयमत्र भावार्थ:- एकान्तोच्छेदेऽपि सुखाद्यनुभवितुस्तत्क्षण एव सर्वथोच्छेदादहेतुकत्वात्तदुत्तरक्षणस्योत्पत्तिरपि न युज्यते, कुतः पुनस्तद्विकल्पनमिति गाथार्थः ॥ उक्तोऽपायः, साम्प्रतमुपाय उच्यते तत्रोप- सामीप्येन (आय) विवक्षितवस्तुनोऽविकललाभहेतुत्वाद्वस्तुनो लाभ एवोपायः - अभिलषितवस्त्ववाप्तये व्यापारविशेष इत्यर्थः असावपि चतुर्विध | एव, तथा चाह
एमेव चडविगप्पो होइ उवाओऽवि तत्थ दव्वंमि । धातुब्बाओ पढमो नंगलकुलिएहिं खेत्तं तु ॥ ६१ ॥
For Private & Personal Use Only
w.jainelibrary.org