________________
दशवैका० हेतुरित्यर्थः, अथवा मां गालयति भवादिति मङ्गलं, संसारादपनयतीत्यर्थः। तच्च नामादि चतुर्विधं, तद्यथा- मङ्गलहारि-वृत्तिः 8|नाममङ्गलं स्थापनामङ्गलं द्रव्यमङ्गलं भावमङ्गलं चेति, एतेषां च स्वरूपमावश्यकविशेषविवरणादवसेयमिति निक्षेपः श्रु अमुमेव गाथार्थमुपसंहरन्नाह नियुक्तिकार:
| तेऽनुयोनामाइमंगलंपिय चउब्विहं पन्नवेऊणं ॥ २॥
गा:४ व्याख्या-नामादिमङ्गलं चतुर्विधमपि 'प्रज्ञाप्य' प्ररूप्येति गाथार्थः ॥ तत्र समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्ययविधानात् प्रज्ञाप्य किमत आह
. सुयनाणे अणुओगेणाहिगयं सो चउठिवहो होइ । चरणकरणाणुओगे धम्मे गणिए (काले) य दविए य ॥ ३ ॥ व्याख्या-श्रुतं च तद् ज्ञानं च श्रुतज्ञानं तस्मिन् श्रुतज्ञाने अनुयोगेनाधिकृतम्, अनुयोगेनाधिकार इत्यर्थः, इयमत्र भावना-भावमङ्गलाधिकारे श्रुतज्ञानेनाधिकारः, तथा चोक्तम्-"एत्थं पुण अहिगारो सुयणाणेणं जओ सुएणं तु । सेसाणमप्पणोऽविय अणुओगु पईवदिटुंतो ॥१॥" तस्य चोद्देशादयः प्रवर्त्तन्ते इति, उक्तं च-"सुअणाणस्स उद्देसो समुद्देसो अणुन्ना अणुओगो पवत्तई" तत्रादावेवोद्दिष्टस्य समुद्दिष्टस्य समनुज्ञातस्य च सतः अनुयोगो भवतीत्यतो नियुक्तिकारेणाभ्यधायि 'श्रुतज्ञानेऽनुयोगेनाधिकृत'मिति । 'सः'अनुयोग
१ अत्र पुनरधिकारः श्रुतज्ञानेन यतः श्रुतेनैव । शेषाणामात्मनोऽपि च अनुयोगः प्रदीपदृष्टान्तः (न्तात् ) ॥ १ ॥ २ श्रुतज्ञानस्य उद्देशः समुद्देशः अनुज्ञात अनुयोगः प्रवर्तते.
SUSTUS
Join Education
For Private
Personel Use Only
w.jainelibrary.org