________________
Jain Education
191949
रूपं शास्त्रं, ज्ञानस्य च निर्जरार्थता प्रतिपादितैव, यत उक्तम् - "जं गेरइओ कम्मं खवेइ बहुयाहिं वासको डीहिं । तं नाणी तिहि गुत्तो खवेइ ऊसासमेत्तेणं ॥ १ ॥" इत्यादि । इह चादिमङ्गलं द्रुमपुष्पिकाध्ययनादि, धर्मप्रशंसाप्रतिपादकत्वात्तत्स्वरूपत्वादिति, मध्यमङ्गलं तु धर्मार्थकामाध्ययनादि, प्रपञ्चाचारकथाद्यभिधायकत्वात्, चरममङ्गलं तु भिक्ष्वध्ययनादि, भिक्षुगुणाद्यवलम्बनत्वादित्येवमध्ययनविभागतो मङ्गलत्रयविभागो निदर्शितः, अधुना सूत्रविभागेन निदर्श्यते तत्र चादिमङ्गलम् 'धम्मो मंगल' इत्यादिसूत्रं, धर्मोपलक्षितत्वात्, तस्य च मङ्गलत्वादिति, मध्यममङ्गलं पुन: 'णाणदंसणे' त्यादि सूत्र, ज्ञानोपलक्षितत्वात्, तस्य च मङ्गलत्वादिति, अवसानमङ्गलं तु 'णिक्खम्ममाणा इय' इत्यादि, भिक्षुगुणस्थिरीकरणार्थं विविक्तचर्याभिधायकत्वात्, भिक्षुगुणानां च मङ्गलत्वादिति । आह-मङ्गलमिति कः शब्दार्थः १, उच्यते, 'अगिरगिलगिवगिमगीति' दण्डकधातुः, अस्य "इदितो नुम् धातो" ( पा० ७-१-१८) रिति नुमि विहिते औणादिकालच्प्रत्ययान्तस्य अनुबन्धलोपे कृते प्रथमैकवचनान्तस्य मङ्गलमितिरूपं भवति । मङ्गयते हितमनेनेति मङ्गलं, मङ्गयतेऽ|धिगम्यते साध्यत इतियावत्, अथवा मङ्ग इति धर्माभिधानं, 'ला आदाने' अस्य धातोर्म उपपदे " आतोऽ नुपसर्गे कः” ( पा०३-२ - ३ ) इति कप्रत्ययान्तस्यानुबन्धलोपे कृते " आतो लोप इटि च” ( पा० ६-४-६४ ) क्ङिति इत्यनेन सूत्रेणाकारलोपे च कृते प्रथमैकवचनान्तस्यैव मङ्गलमिति भवति, मङ्गं लातीति मङ्गलं, धर्मोपादान१ यन्नैरयिकः कर्म क्षपयति बहुकाभिर्वर्ष कोटीभिः । तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छ्वासमात्रेण ॥ १ ॥ २ मङ्गलखरूपत्वात् वि० प० ३ °करणभिक्षु० प्र०
For Private & Personal Use Only
www.jainelibrary.org