________________
दशवैका ० हारि-वृत्तिः
॥२॥
Jain Education
न्तवादे चात्मन उत्पत्तिव्यतिरेकेण व्यापाराभावाद्भिन्नकालक्रियाद्वयकर्तृत्वानुपपत्तिरेवेत्यलं विस्तरेण, गमनिकामात्रमेवैतदिति । भवति च चतुर्थ्यप्येवं नमनक्रियायोगे, अधिकृतगाथासूत्रान्यथानुपपत्तेः, आप्तश्च निर्युक्तिकारः, 'पित्रे सवित्रे च सदा नमामी त्येवमादिविचित्रप्रयोगदर्शनाच, कर्मणि वा षष्ठी । सर्वसिद्धेभ्यो नत्वा किमित्याह - 'दशकालिकनिर्युक्तिं कीर्त्तयिष्यामि तत्र कालेन निर्वृत्तं कालिकं, प्रमाणकालेनेति भावः, दशाध्ययनभेदात्मकत्वाद्दशप्रकारं कालिकं प्रकारशब्दलोपादशकालिकं, विशब्दार्थ तूत्तरत्र व्याख्यास्यामः, तत्र नियुक्तिरिति- निर्युक्तानामेव सूत्रार्थानां युक्ति:-परिपाठ्या योजनं निर्युक्तयुक्तिरिति वाच्ये युक्तशब्दलोपान्निर्युक्तिस्तां विप्रकीर्णार्थयोजनां व्याख्यास्यामि कीर्त्तयिष्यामीति गाथार्थः ॥ शास्त्राणि चादिमध्याव सानमङ्गलभाञ्जि भवन्तीत्यत आह
आइमज्झवसाणे काउं मंगलपरिग्गहं विहिणा ।
व्याख्या - शास्त्रस्यादौ- प्रारम्भे मध्ये-मध्यविभागे अवसाने - पर्यन्ते, किं ? - कृत्वा मङ्गलपरिग्रहम्, कथम् ? - 'विधिना' प्रवचनोक्तेन प्रकारेण, आह- किमर्थं मङ्गलत्रयपरिकल्पनम् ? इति उच्यते, इहादिमङ्गलपरिग्रहः सकलविनापोहेनाभिलषितशास्त्रार्थ पारगमनार्थे, तत्स्थिरीकरणार्थे च मध्यमङ्गलपरिग्रहः, तस्यैव शिष्यप्रशिष्यसन्तानाव्यवच्छेदायावसानमङ्गलपरिग्रह इति । अत्र चाक्षेपपरिहारावावश्यकविशेषविवरणादव सेयौ - इति । सामान्यतस्तु सकलमपीदं शास्त्रं मङ्गलं, निर्जरार्थत्वात्तपोवत्, न चासिडो हेतुः, यतो वचनविज्ञान
For Private & Personal Use Only
मङ्गलत्रयम्
॥ २ ॥
w.jainelibrary.org