________________
श्चतुर्विधोभवति, कथम्?-'चरणकरणानुयोगः' चर्यत इति चरणं-व्रतादि, यथोक्तम्-"वय संमणधम्मसंजम वेयावच्चं च बंभगुत्तीओ। णाणादितियं तव कोहनिग्गहाई चरणमेयं ॥१॥” क्रियते इति करणं-पिण्डविशुद्ध्यादि, उक्तं च-"पिंडविसोही समिई भावणे पडिमा य इंदियनिरोहो । पडिलेहँण गुत्तीओ अभिग्गंहा चेव करणं तु॥१॥" चरणकरणयोरनुयोगश्चरणकरणानुयोगः, अनुरूपो योगोऽनुयोगः-सूत्रस्यार्थेन सार्द्धमनुरूपः सम्बन्धो, व्याख्यानमित्यर्थः, एकारान्तः शब्दः प्राकृतशैल्या प्रथमा द्वितीयान्तोऽपि द्रष्टव्यः, यथा "कैयरे आगच्छइ दित्तरूवे” इत्यादि, 'धर्म' इति धर्मकथानुयोगः, 'काले' चेति कालानुयोगश्च गणितानुयोगश्चेत्यर्थः, 'द्रव्ये चेति द्रव्यानुयोगश्च । तत्र कालिकश्रुतं चरणकरणानुयोगः, ऋषिभाषितान्युत्तराध्ययनादीनि धर्मकथानुयोगः, सूर्यप्रज्ञप्त्यादीनि गणितानुयोगः, दृष्टिवादस्तु द्रव्यानुयोग इति, उक्तं च-"कालियसुअंचल इसिभासियाइ तइया य सूरपन्नत्ती । सव्वोय दिहिवाओ चउत्थओ होइ अणुओगो ॥१॥” इति गाथार्थः॥ इह चार्थतोऽनुयोगो द्विधा-अपृथक्त्वानुयोगः पृथक्त्वानुयोगश्च, तत्रापृथक्त्वानुयोगो यत्रैकस्मिन्नेव सूत्रे सर्व 31 | एव चरणादयः प्ररूप्यन्ते, अनन्तगमपयोयत्वात्सूत्रस्य, पृथक्त्वानुयोगश्च यत्र कचित्सूत्रे चरणकरणमेव क
१व्रतानि श्रमणधर्मः संयमो यावृत्त्यं च ब्रह्मगुप्तयः । ज्ञानादित्रयं तपः क्रोधनिग्रहादि चरणमेतत् ॥१॥ २ पिण्डविशुद्धिः समितयः भावनाः प्रतिमाश्च इन्द्रियनिरोधः । प्रतिलेखना गुप्तयः अभिग्रहाश्चैव करणं तु॥१॥ ३ कतर आगच्छति दीप्तरूपः, ४ कालिकश्रुतं च ऋषिभाषितानि तृतीया (गणितानुयोगमयी) च सूर्यप्रज्ञप्तिः । सर्वश्च दृष्टिवादश्चतुर्थों भवत्यनुयोगः ॥१॥
यादीनिगश्च। तत्र कालिककथानुयोगः, कार मथमाद्वितीयागः सूत्रस्थानमा
LANDSAURUSOSANSAMROSAROSOCIRel
Jain Education
For Private Personal Use Only
w.jainelibrary.org