________________
एवं तेसिपि सुहज्झवसाणेणं केवलनाणं समुप्पण्णं, एवं पसंगओ कहियं कहाणयं, उवणओ पुण कोहा-|| दिगाओ अपसत्यभावाओ दुग्गइए अवाओ त्ति ॥ परलोकचिन्तायां प्रकृतोपयोगितां दर्शयन्नाह
सिक्खगअसिक्खगाणं संवेगथिरट्ठयाइ दोहंपि । दवाईया एवं दंसिज्जते अवाया उ ।। ५७ ॥ ___ व्याख्या-शिक्षकाशिक्षकयोः' अभिनवप्रवृजितचिरप्रवजितयोः अभिनवप्रवजितगृहस्थयोर्वा संवेगस्थैर्यार्थ द्वयोरपि द्रव्याद्या 'एवम् उक्तेन प्रकारेण वक्ष्यमाणेन वा दश्यन्ते अपाया इति, तत्र संवेगो-मोक्षसुखाभिलाषः स्थैर्य पुनः अभ्युपगतापरित्यागः, ततश्च कथं नु नाम दुःखनिबन्धनद्रव्याद्यवगमात्तयोः संवेगस्थैर्ये स्यातां? द्रव्यादिषु चाप्रतिबन्ध इति गाथार्थः ॥ तथा चाह
दविरं कारणगहि विगिंचिअव्वमसिवाइखेत्तं च । बारसहिं एस्सकालो कोहाइविवेग भावम्मि ॥ ५८॥ __ व्याख्या-इहोत्सर्गतो मुमुक्षुणा द्रव्यमेवाधिकं वस्त्रपात्राद्यन्यद्वा कनकादिन ग्राह्य, शिक्षकाहिसंदिष्टादिकारणगृहीतमपि तत्परिसमाप्तौ परित्याज्यम्, अत एवाह-द्रव्यं कारणगृहीतं, किम् ! 'विकिंचितव्यं'। परित्याज्यम्, अनेकैहिकामुष्मिकापायहेतुत्वात्, दुरन्ताग्रहाद्यपायहेतुता च मध्यस्थैः स्वधिया भावनीयेति। एवमशिवादिक्षेत्रं च, परित्याज्यमिति वर्तते, अशिवादिप्रधानं क्षेत्रमशिवादिक्षेत्रम्, आदिशब्दादूनोदरताराजद्विष्टादिपरिग्रहः, परित्याज्यं चेदमनेकैहिकामुष्मिकापायसम्भवादिति । तथा द्वादशभिर्वरेष्यत्काल:,
१एवं (तत्) प्रसङ्गतः कथितं कथानकम् , उपनयः पुनः क्रोधादिकात् अप्रशस्वभावात् दुर्गतेरपाय इति.
Jain Education
For Private & Personal Use Only
jainelibrary.org