SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ विस्तरभयादिति, एवं सर्वथा अभेवादिनोऽप्येकत्वादेव तदभावो भावनीय इति, अनेकान्तवादिनस्त्वनन्तधर्मात्मके वस्तुनि तत्तद्धर्मसामर्थ्यात्तत्तद्वस्तुनः प्रतिबन्धबलेनैव तस्य तस्य वस्तुनो गमकं भवति, अन्यथा | ततस्तस्मिंस्तत्प्रतिपत्त्यसम्भव इति कृतंप्रसङ्गेन, प्रकृतंप्रस्तुमः-चरितं च कल्पितं चे(वे)त्यनेन विधिना द्विविधम् , पुनश्चतुर्विधं-चतुष्प्रकारमेकैकम्, कथमत आह–'उदाहरणं तद्देशः तद्दोषश्चैव उपन्यास' इति । तत्रोदाह-12 रणशब्दार्थ उक्त एव, तस्य देशस्तद्देशः, एवं तद्दोषः, उपन्यसनमुपन्यासः, स च तद्वस्त्वादिलक्षणो वक्ष्यमाण इति गाथार्थः॥ साम्प्रतमुदाहरणमभिधातुकाम आह चउहा खलु आहरणं होइ अवाओ उवाय ठवणा य । तय पडुप्पन्नविणासमेव पढमं चउविगप्पं ॥ ५४ ॥ व्याख्या-चतुर्धा खलु उदाहरणं भवति, अथवा चतुर्धा खलु उदाहरणे विचार्यमाणे भेदा भवन्ति, तद्यथा-13 अपायः उपायः स्थापना च तथा च प्रत्युत्पन्नविनाशमेवेति, खरूपमेषां प्रपञ्चेन भेदतो नियुक्तिकार एव वक्ष्यति, तथा चाह–'प्रथमम्' अपायोदाहरणं 'चतुर्विकल्पं चतुर्भेदम् । तत्रापायश्चतुःप्रकारः, तद्यथा-द्रव्यापायः क्षेत्रापायः कालापायो भावापायश्च इति गाथार्थः ॥ तत्र द्रव्यादपायो द्रव्यापायः, अपाय:-अनिष्टप्राप्तिः द्रव्यमेव वा अपायो द्रव्यापायः, अपायहेतुत्वादित्यर्थः, एवं क्षेत्रादिष्वपि भावनीयम् । साम्प्रतं द्रव्यापायप्रतिपादनायाह दव्वावाए दोन्नि उ वाणिअगा भायरो धणनिमित्तं । वहपरिणएक्कमेकं दहमि मच्छेण निव्वेओ ॥ ५५ ॥ Jain Education in malina For Private & Personel Use Only ww.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy