________________
BHAROSAURANAGAR
चतुष्पकारः, खलुशब्दो व्यक्तिभेदादनेकविधश्चेति विशेषणार्थः, तुशब्दस्य पुनःशब्दार्थत्वात् तेन पुनहें-18 तुना साध्यार्थाविनाभावबलेन 'साध्यते निष्पाद्यते ज्ञाप्यते वा 'अर्थः प्रतिज्ञार्थ इति गाथार्थः॥ साम्प्रतं नानादेशजविनेयगणहितायोदाहरणैकार्थिकप्रतिपिपादयिषयाऽऽह
नायमुदाहरणंतिम दिलुतोवम निदरिसणं तहय । एगटुं तं दुविहं चउन्विहं चेव नायव्वं ॥ ५२ ॥ । व्याख्या-ज्ञायतेऽस्मिन् सति दान्तिकोऽर्थ इति ज्ञातम्, अधिकरणे निष्ठाप्रत्ययः, तथोदाहियते प्राबल्येन गृह्यतेऽनेन दान्तिकोऽर्थ इति उदाहरणम् , दृष्टमर्थमन्तं नयतीति दृष्टान्तः, अतीन्द्रियप्रमाणादृष्टं संवेदननिष्ठां नयतीत्यर्थः, उपमीयतेऽनेन दार्शन्तिकोऽर्थ इत्युपमानम्, तथा च 'निदर्शनं निश्चयेन दयतेऽनेन दान्तिक एवार्थ इति निदर्शनम्, 'एगटुंति इदमेकार्थम् एकार्थिकजातम्, इदं च तत्प्रागुपन्यस्तं द्विविधमुदाहरणं चतुर्विधं चैवाङ्गीकृत्य ज्ञातव्यं प्रत्येकमपि, सामान्यविशेषयोः कथञ्चिदेकत्वाद्, अत एव सामान्यस्थापि प्राधान्यख्यापनार्थमेकवचनाभिधानम् एकार्थमिति, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयाद्, गमनिकामात्रमेवैतदिति गाथार्थः ॥ साम्प्रतं यदुक्तं तत्रोदाहरणं द्विविध'मित्यादि, तद् द्वैविध्यादिप्रदशनायाह
चरिअं च कप्पिों वा दुविहं तत्तो चउठिवहेक्केकं । आहरणे तसे तद्दोसे चेवुवन्नासे ।। ५३ ॥ व्याख्या-चरितं च कल्पितं चे(वे)ति द्विविधमुदाहरणम् , तत्र चरितमभिधीयते यवृत्तं, तेन कस्यचिद् दार्टी
Jain Education Intern
For Private & Personel Use Only
DEnelibrary.org