SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ |-अहिंसासंयमतपोरूपों धर्मों मङ्गलमुत्कृष्टमित्येतद्वचा किमाझासिळूमाहोखियुक्तिसिद्धमपि?, अत्रोच्यते, उभयसिद्धं, कुतो?, जिनवचनत्वात्, तस्य च विनेयसत्त्वापेक्षयाऽऽज्ञादिसिद्धत्वात्, आह च नियुक्तिकारः जिणवयणं सिद्धं चेव भण्णए कत्थई उदाहरणं । आसज्ज उ सोयारं हेऊऽवि कर्हिचि भण्णेजा ॥ ४९॥ व्याख्या-जिनाःप्राग्निरूपितखरूपाः तेषां वचनं तदाज्ञया सिद्धमेव-सत्यमेव प्रतिष्ठितमेव अविचार्यमेवेत्यर्थः, कुतः?, जिनानां रागादिरहितत्वात्, रागादिमतश्च सत्यवचनासम्भवात्, उक्तं च-"रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते घनृतम् । यस्य तु नैते दोषास्तस्यान्तकारणं किं स्यात् ? ॥१॥” इत्यादि, तथापि तथाविधश्रोत्रपेक्षया तत्रापि भण्यते कचिदुदाहरणम्, तथा आश्रित्य तु श्रोतारं हेतुरपि कचिद्भण्यते, न तु |नियोगतः, तुशब्दः श्रोतृविशेषणार्थः, किंविशिष्टं श्रोतारम् ?-पटुधियं मध्यमधियं च, न तु मन्दधियम् इति, तथाहि-पटुधियो हेतुमात्रोपन्यासादेव प्रभूतार्थाय गतिर्भवति, मध्यमधीस्तु तेनैव बोध्यते, न वितर इत्यर्थः । तत्र साध्यसाधनान्वयव्यतिरेकप्रदर्शनमुदाहरणमुच्यते, दृष्टान्त इत्यर्थः, साध्यधर्मान्वयव्यतिरेकलक्षणश्च हेतुः, इह च हेतुमुल्लङ्य प्रथममुदाहरणाभिधानं न्यायानुगतत्वात्तहलेनैव हेतोः साध्यार्थसाधकत्वोपपत्तेः कचिद्धेतुमनभिधाय दृष्टान्त एवोच्यत इति न्यायप्रदर्शनार्थ वा, यथा गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धास्तिकायः, चक्षुष्मतो ज्ञानस्य दीपवत्, उक्तं च-"जीवानां पुद्गलानां च, गत्युपष्टम्भकारणम् । धर्मास्तिकायो ज्ञानस्य, दीपश्चक्षुष्मतो यथा ॥१॥" तथा क्वचिद्धेतुरेव केवलोऽभिधी Jain Education in For Private & Personel Use Only Omjainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy