________________
Jain Education Inte
वायणा नाम सिस्सस्स अज्झावणं, पुच्छणा सुत्तस्स अत्थस्स वा हवइ, परिअडणा नाम परिअट्टणंति वा अभस्सणंति वा गुणणंति एगट्ठा, अणुप्पेहा नाम जो मणसा परिअट्ठेइ णो वायाए, धम्मकहा णाम जो अहिंसाइलक्खणं सव्वण्णुपणीअं धम्मं अणुओगं वा कहेइ, एसा धम्मकहा । गतः स्वाध्यायः, इदानीं ध्यानमुच्यते- तत्पुनरार्त्तादिभेदाच्चतुर्विधम्, तद्यथा - आर्त्तध्यानं रौद्रध्यानं धर्मध्यानं शुक्लध्यानं चेति, तत्र "राज्योपभोगशयनासनवाहनेषु, स्त्रीगन्धमाल्यमणिरत्नविभूषणेषु । इच्छाभिलाषमतिमात्रमुपैति मोहाद्, ध्यानं तदार्त्तमिति तत्प्रवदन्ति तज्ज्ञाः ॥ १ ॥ संछेदनैर्दहनभञ्जनमारणैश्च बन्धप्रहारदमनैर्विनिकृन्तनैश्च । यो याति रागमुपयाति च नानुकम्पां, ध्यानन्तु रौद्रमिति तत्प्रवदन्ति तज्ज्ञाः ॥ २ ॥ सूत्रार्थसाधनमहाव्रतधारणेषु, बन्धप्रमोक्षगमनागमहेतुचिन्ता । पञ्चेन्द्रियव्युपरमश्च दया च भूते, ध्यानं तु धर्ममिति तत्प्रवदन्ति तज्ज्ञाः ॥ ३ ॥ यस्येन्द्रियाणि विषयेषु पराङ्मुखानि, सङ्कल्पकल्पनविकल्पविकारदोषैः । योगैः सदा त्रिभिरहो निभृतान्तरात्मा, ध्यानोत्तमं प्रवरशुक्लमिदं वदन्ति ॥ ४ ॥ आर्ते तिर्यगितिस्तथा गतिरधो ध्याने तु रौद्रे सदा, धर्मे देवगतिः शुभं बत फलं शुक्ले तु जन्मक्षयः । तस्माद् व्याधिरुगन्तके हितकरे संसारनिर्वाहके, ध्याने शुक्लवरे रजःप्रमथने कुर्यात् प्रयत्नं बुधः ॥ ५ ॥” इति । उक्तं समासतो ध्यानं, विस्तरतस्तु ध्यानशत
वाचना नाम शिष्यस्याध्यापनम् । प्रच्छना सूत्रस्य अर्थस्य वा भवति । परिवर्तना नाम परिवर्तनमिति वा अभ्यसनमिति वा गुणनमिति वा एकार्थाः । अनुप्रेक्षा नाम यो मनसा परिवर्त्तयति न वाचा । धर्मकथा नाम योऽहिंसादिलक्षणं सर्वज्ञप्रणीतं धर्म्म मनुयोगं वा कथयति, एषा धर्मकथा.
For Private & Personal Use Only
ainelibrary.org