________________
Jain Education In
व्याख्या - तत्र पापं छिनत्तीति पापच्छित्, अथवा यथावस्थितं प्रायश्चित्तं शुद्धमस्मिन्निति प्रायश्चित्तमिति, उक्तं च- “पावं छिंदइ जम्हा पायच्छित्तंति भण्णए तम्हा । पाएण वावि चित्तं विसोहई तेण पच्छित्तं ॥१॥” तत्पुनरालोचनादि दशधेति, उक्तं च- “आलोयणपडिक्कमणे मीसविवेगे तहा विउस्सग्गे । तवछेअमूलअणबट्टया य पारंचिए चेव ॥ १ ॥” भावार्थोऽस्या आवश्यकविशेषविवरणादवसेय इति । उक्तं प्रायश्चित्तं, साम्प्रतं विनय उच्यते-तत्र विनीयतेऽनेनाष्टप्रकारं कर्मेति विनय इति उक्तं च- “विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चाश्रवनिरोधः ॥ १ ॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् । तस्मात्क्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥ २ ॥ योगनिरोधाद्भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः ॥ ३ ॥" स च ज्ञानादिभेदात् सप्तधा, उक्तं च - "णाणे दंसणचरणे मणवइकाओवयारिओ विणओ । णाणे पंचपगारों महणाणाईण सद्दहणं ॥ १ ॥ भत्ती तह बहुमाणो तद्दिद्वत्थाण सम्मभावणया । विहिगहणभासोवि अ एसो विणओ जिणाभिहिओ ॥ २ ॥
१ पापं छिनत्ति यस्मात् प्रायश्चित्तमिति भण्यते तस्मात् । प्रायेण वापि चित्तं विशोधयति तेन प्रायश्चित्तम् ॥ १ ॥ २ आलोचना प्रतिक्रमणं मित्रं विवेकस्तथा व्युत्सर्गः । तपश्छेदो मूलमनवस्थाप्यं च पाराञ्चिकं चैव ॥ १ ॥ ३ अत एव नात्र चूर्णाविव स्थानदर्शनम् ४ ज्ञाने दर्शने चरणे मनोवाक्कायेषु औपचारिको विनयः । ज्ञाने पञ्चप्रकारः मतिज्ञानादीनां श्रद्धानम् ॥ १ ॥ ५ भक्तिस्तथा बहुमानः तद्दृष्टार्थानां सम्यग्भावनता । विधिग्रहणमभ्यासोऽपि च एष विनयो जिनाभिहितः ॥ २ ॥
For Private & Personal Use Only
www.jainelibrary.org