SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ पुरक (मई) र्यापथपरिग्रहः । दोषा घेते परित्यक्ताः, शिरोलोचं प्रकुर्वता ॥१॥” इत्यादि । गतः कायक्लेशः, साम्प्रतं संलीनतोच्यते इयं चेन्द्रियसंलीनतादिभेदाचतुर्विधेति, उक्तं च-"इंदिअकसायजोए पडुच्च संलीणया मुणेयव्वा । तहय विवित्ताचरिआ पण्णत्ता वीअरागेहिं ॥१॥” तत्र श्रोत्रादिभिरिन्द्रियैः शब्दादिषु सुन्दरेतरेषु रागद्वेषाकरणमिन्द्रियसंलीनतेति, उक्तं च-"सद्देसु अभद्दयपावएसु सोअविसयमुवगएसु । तु?ण व रुटेण व समणेण सया ण होअव्वं ॥१॥” एवं शेषेन्द्रियेष्वपि वक्तव्यम् , यथा-"रूवेसु अभद्दगपावएसु" इत्यादि । उक्तेन्द्रियसल्लीनता, अधुना कषायसंलीनता-सा च तदुदयनिरोधोदीर्णविफलीकरणलक्षणेति, उक्तं च-"उदयस्सेव निरोहो उदयं पत्ताण वाऽफलीकरणं । जं इत्थ कसायाणं कसायसंलीनता एसा ॥१॥” इत्यादि, उक्ता कषायसंलीनता, साम्प्रतं योगसंलीनता-सा पुनर्मनोयोगादीनामकुशलानां निरोधः कुशलानामुदीरणमित्येवंभूतेति, उक्तंच-"अपसत्थाण निरोहो जोगाणमुदीरणं च कुसलाणं। कजम्मि य विहिगमणं जोए संलीणया भणिआ ॥१॥” इत्यादि । उक्ता योगसंलीनता, अधुना विविक्तचर्या, १ इन्द्रियकषाययोगान् प्रतीत्य संलीनता मुणितव्या । तथा च विविक्ता चर्या प्रज्ञप्ता वीतरागैः ॥ १॥ २ शब्देषु च भद्रकपापकेषु श्रोत्रविषयमुपगतेषु । *तुष्टेन वा रुष्टेन वा श्रमणेन सदा न भवितव्यम् ॥१॥ ३ रूपेषु च भद्रकपापकेषु. ४ उदयस्यैव निरोध उदयप्राप्तानां वाऽफलीकरणम् । यदत्र कषायाणां | कषायसंलीनतैषा ॥१॥ ५ अप्रशस्तानां निरोधो योगानामुदीरणं च कुशलानाम् । कार्ये च विधिगमनं योगे संलीनता भणिता ॥१॥ Jain Education Internationa For Private & Personel Use Only www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy