________________
-1
-NCR
दशवैका अत एवाह-अथ 'कालगतः समाधिने ति 'अर्थ' उक्तशास्त्राध्ययनपर्यायानन्तरं कालगत-आगमोक्तेन वि- २ विविक्तहारि-वृत्तिः धिना मृतः, समाधिना-शुभलेश्याध्यानयोगेनेति गाथार्थः ॥ ३९॥ अत्र चैवं वृद्धवादः-यथा तेनैतावताचर्याचूला
श्रुतेनाराधितम् एवमन्येऽप्येतदध्ययनानुष्ठानत आराधका भवन्त्विति ॥ ॥२८४॥
आणंदअंसुपायं कासी सिजंभवा तहिं थेरा । जसभइस्स य पुच्छा कहणा अ विआलणा संघे ॥ ३७१ ॥ 'आनन्दाश्रुपातम् अहो आराधितमनेनेति हर्षाश्रुमोक्षणम् 'अकार्षः कृतवन्तः शय्यम्भवाः प्राग्व्यावर्णितस्वरूपाः 'तत्र' तस्मिन् कालगते 'स्थविराः' श्रुतपर्यायवृद्धाः प्रवचनगुरवः, पूजार्थ बहुवचनमिति, यशोभद्रस्य च-शय्यम्भवप्रधानशिष्यस्य गुर्वश्रुपातदर्शनेन किमेतदाश्चर्यमिति विस्मितस्य सतः पृच्छा-भगवन् ! किमेतदकृतपूर्वमित्येवंभूता, कथना च भगवतः-संसारलेह ईदृशः, सुतो ममायमित्येवंरूपा, चशब्दादनुताए पश्च यशोभद्रादीनाम्-अहो गुराविव गुरुपुत्रके वर्तितव्यमिति न कृतमिदमस्माभिरिति, एवंभूतप्रतिबन्ध| दोषपरिहारार्थं न मया कथितं नात्र भवतां दोष इति गुरुपरिसंस्थापनं च । 'विचारणा संघ' इति शय्यम्भवेनाल्पायुषमेनमवेत्य मयेदं शास्त्रं नियूढं किमत्र युक्तमिति निवेदिते विचारणा संघ-कालहासदोषात् प्रभूतसत्त्वानामिदमेवोपकारकमतस्तिष्ठत्वेतदित्येवंभूता स्थापना चेति गाथार्थः ॥४०॥ उक्तोऽनुगमः, साम्प्रतं नयाः, ते च नैगमसंग्रहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवम्भूतभेदभिन्नाः खल्वोघतः सप्त भवन्ति । ॥२८४ ॥ खरूपं चैतेषामध आवश्यक सामायिकाध्ययने न्यक्षेण प्रदर्शितमेवेति नेह प्रतन्यते । इह पुनः स्थानाशून्या
Jain Education in
For Private & Personal Use Only
In
jainelibrary.org