SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte पत्तेरारभ्यामरणान्तम् 'तमाहुलके प्रतिबुद्धजीविनं' तमेवंभूतं साधुमाहुः -अभिदधति विद्वांसः लोके - प्राणिसंघाते प्रतिबुद्धजीविनं-प्रमादनिद्रारहितजीवनशीलं, 'स' एवंगुणयुक्तः सन् जीवति 'संयमजीवितेन' कुशलाभिसंधिभावात् सर्वथा संयमप्रधानेन जीवितेनेति सूत्रार्थः ॥ १५ ॥ शास्त्रमुपसंहरन्नुपदेशसर्वस्वमाह - 'आत्मा खल्वि'ति खलुशब्दो विशेषणार्थः, शक्तौ सत्यां परोऽपि 'सततं' सर्वकालं 'रक्षितव्यः' पालनीयः पारलौकिकापायेभ्यः, कथमित्युपायमाह - 'सर्वेन्द्रियैः' स्पर्शनादिभिः 'सुसमाहितेन' निवृत्तविषयव्यापारेणेत्यर्थः, अरक्षणरक्षणयोः फलमाह- अरक्षितः सन् 'जातिपन्थानं' जन्ममार्ग संसारमुपैति - सामीप्येन गच्छति । सुरक्षितः पुनर्यथागममप्रमादेन 'सर्वदुःखेभ्यः' शारीरमानसेभ्यो 'विमुच्यते ' विविधम्-अनेकैः प्रकारेरपुनर्ग्रहणपरमस्वास्थ्यापादनलक्षणैर्मुच्यते । इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ १६ ॥ श्री हरिभद्रसूरिविरचितटीकोपसंहारः । यं प्रतीत्य कृतं तदूवक्तव्यताशेषमाह छहिं मासेहिं अहीअं अज्झयणमिणं तु अज्जमणगेणं । छम्मासा परिआओ अह कालगओ समाहीए ॥ ३७० ॥ षड्भिर्मासैः 'अधीतं' पठितम् 'अध्ययनमिदं तु' अधीयत इत्यध्ययनम् - इदमेव दशवैकालिकाख्यं शास्त्रं, - वेनाधीतमित्याह - आर्यमणकेन - भावाराधनयोगात् आरायातः सर्वहेयधर्मेभ्य इत्यार्यः आर्यश्चासौ मणकश्वेति विग्रहस्तेन, 'षण्मासाः पर्याय' इति तस्यार्यमणकस्य षण्मासा एव प्रव्रज्याकाल:, अल्पजीवितत्वात्, For Private & Personal Use Only ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy