________________
थेमेते ज्ञानक्रियानयान्तर्भावद्वारेण समासतःप्रोच्यन्ते-ज्ञाननयः क्रियानयश्च, तत्र ज्ञाननयदर्शनमिदम्-ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चाह-णायंमि गिण्हिअव्वे अगिहिअव्वमि चेव अत्थम्मि । जइअव्वमेव इइ जो उवएसो सो नओ नाम ॥१॥ 'णायंमि'त्ति ज्ञाते सम्यक्परिच्छिन्ने 'गिण्हिअव्वें'त्ति ग्रहीतव्य उपादेये 'अगिण्हिअव्वेत्ति अग्रहीतव्येऽनुपादेये हेय इत्यर्थः, चशब्दः | खलूभयोर्ग्रहीतव्याग्रहीतव्ययोआतत्वानुकर्षणार्थ उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्य चैवं व्यवहितः प्रयोगो द्रष्टव्यः-ज्ञात एव ग्रहीतव्ये तथाऽग्रहीतव्ये तथोपेक्षणीये च ज्ञात एव नाज्ञाते, 'अत्थम्मि'त्ति अर्थे ऐहिकामुष्मिके, तत्रैहिको ग्रहीतव्यः स्रक्चन्दनाङ्गनादिः अग्रहीतव्यो विषशस्त्रकण्टकादिः उपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्यः सद्दर्शनादिरग्रहीतव्यो मिथ्यात्वादिरुपेक्षणीयो विवक्षया अभ्युदयादिरिति तस्मिन्नर्थे, 'यतितव्यमेवेति अनुवारलोपाद्यतितव्यम् एवम्' अनेन प्रकारेणैहिकामुष्मिकफलप्रात्यर्थिना सत्त्वेन प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः । इत्थं चैतदङ्गीकर्तव्यं, सम्यगज्ञाते प्रवर्त्तमानस्य फलाविसंवाददर्शनात्, तथा चान्यैरप्युक्तम्-"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात्प्रवृत्तस्य, फलप्राप्तरसंभवात् ॥१॥” तथाऽऽमुष्मिकफलप्रात्यर्थिनाऽपि ज्ञान एव यतितव्यं, तथा चागमोऽप्येवमेव व्यवस्थितः, यत उक्तम्-“पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए । अण्णाणी किं काही, किंवा णाहीइ छेअपावगं? ॥१॥” इतश्चैतदेवमङ्गीकर्तव्यं, यस्मात्तीर्थकरगणधरैरगीतार्थानां केव
Jain Education Intl
For Private & Personel Use Only
jainelibrary.org