SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ SRCASSNESHSHAHARASHRS आकीर्णे हस्तपादादिलूषणदोषात् अवमाने अलाभाधाकर्मादिदोषादिति । तथा 'उत्सन्नदृष्टाहृतं' प्राय उपलब्धमुपनीतम् , उत्सन्नशब्दः प्रायो वृत्तौ वर्तते, यथा-"देवा ओसन्नं सायं वेयणं वेएंति" किमेतदित्याह भक्तपानम्' ओदनारनालादि, इदं चोत्सन्नदृष्टाहृतं यत्रोपयोगः शुद्ध्यति, त्रिगृहान्तरादारत इत्यर्थः, 'भिसक्खग्गाही एगत्थ कुणइ बीओ अ दोसुमुवओग'मिति वचनात्, इत्येवंभूतमुत्सन्नं दृष्टाहृतं भक्तपानमृषीणां प्रशस्तमिति योगः, तथा 'संसृष्टकल्पेन' हस्तमात्रकादिसंसृष्टविधिना चरेद्भिक्षुरित्युपदेशः, अन्यथा पुरस्कमादिदोषात्, संसृष्टमेव विशिनष्टि-तजातसंसृष्ट' इत्यामगोरसादिसमानजातीयसंसृष्टे हस्तमात्रकादौ यतिः 'यतेत' यत्नं कुर्यात्, अतजातसंसृष्टे संसर्जनादिदोषादित्यनेनाष्टभङ्गसूचनं, तद्यथा-संसढे हत्थे संसहे मत्ते सावसेसे दव्वे' इत्यादि, अत्र प्रथमभङ्गः श्रेयान् , शेषास्तु चिन्त्या इति सूत्रार्थः॥ ६ ॥ उपदेशाधिकार एवेदमाह-अमद्यमांसाशी भवेदिति योगः, अमद्यपोऽमांसाशी च स्यात्, एते च मद्यमांसे लोकागमप्रतीते एव, ततश्च यत्केचनाभिदधति-आरनालारिष्ठाद्यपि संधाना ओदनाद्यपि प्राण्यङ्गत्वात्याज्यमिति, तदसत्, अमीषां मद्यमांसत्वायोगात्, लोकशास्त्रयोरप्रसिद्धत्वात्, संधानप्राण्यङ्गत्वतुल्यत्वचोदना त्वसाध्वी, अतिप्रसङ्गदोषात्, द्रवत्वस्त्रीत्वतुल्यतया मूत्रपानमातृगमनादिप्रसङ्गादित्यलं प्रसङ्गेन, अक्षरगमनि १ देवा उत्सन्नं सातवेदनां वेदयन्ति. २ भिक्षाग्राही एकत्र करोति द्वितीयश्च द्वयोरुपयोगम्. ३ संसृष्टो हस्तः संसृष्टं मात्रकं सावशेषं द्रव्यम्. ४ तके शुभेऽशुभे इत्युक्तस्तकम् आदिना दध्यादि. Jain Education in For Private & Personel Use Only jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy