________________
दशवैका ० हारि-वृत्तिः
॥ २८१ ॥
कामात्रप्रक्रमात् । तथा 'अमत्सरी च' न परसंपद्वेषी च स्यात्, तथा 'अभीक्ष्णं' पुनः पुनः पुष्टकारणाभावे 'निर्विकृतिकञ्च' निर्गतविकृतिपरिभोगश्च भवेत्, अनेन परिभोगोचितविकृतीनामप्यकारणे प्रतिषेधमाह, तथा 'अभीक्ष्णं' गमनागमनादिषु, विकृतिपरिभोगेऽपि चान्ये, किमित्याह - 'कायोत्सर्गकारी भवेत्' ईर्याप थप्रतिक्रमणमकृत्वा न किञ्चिदन्यत् कुर्याद्, तदशुद्धतापत्तेरिति भावः । तथा 'स्वाध्याययोगे' वाचनाद्युपचा व्यापार आचामाम्लादौ 'प्रयतः' अतिशययत्नपरो भवेत्, तथैव तस्य फलवत्त्वाद् विपर्यय उन्मादादिदोषप्रसङ्गादिति सूत्रार्थः ॥ ७ ॥ किंच - 'न प्रतिज्ञापयेत्' मासादिकल्पपरिसमाप्तौ गच्छन् भूयोऽप्यागतस्य ममैवैतानि दातव्यानीति न प्रतिज्ञां कारयेद्गृहस्थं, किमाश्रित्येत्याह - ' शयनासने शय्यां निषयां तथा भ तपान' मिति तत्र शयनं संस्तारकादि आसनं- पीठकादि शय्या वसतिः निषद्या स्वाध्यायादिभूमिः ' तथा ' तेन प्रकारेण तत्कालावस्थौचित्येन 'भक्तपानं' खण्डखाद्यकद्राक्षापानकादि न प्रतिज्ञापयेत्, ममत्वदोषात् । सर्वत्रैतन्निषेधमाह - 'ग्रामे' शालिग्रामादौ 'कुले वा' श्रावककुलादी 'नगरे' साकेलादी 'देशे वा' मध्यदेशादौ 'ममत्वभाव' ममेदमिति स्नेहमोहं न 'कचित्' उपकरणादिष्वपि कुर्यात्, तन्मूलत्वादुःखादीनामिति | ॥ ८ ॥ उपदेशाधिकार एवाह - 'गृहिणी' गृहस्थस्य ' वैयावृत्त्यं' गृहिभावोपकाराय तत्कर्मवात्मनो व्यावृत्त भावं न कुर्यात्, खपरोभयाश्रयः समायोजनदोषात्, तथा अभिवादनं वाङ्गमस्काररूपं वन्दनं - कायप्रणामलक्षणं पूजनं वा वस्त्रादिभिः समभ्यर्चनं वा गृहिणो न कुर्याद्, उक्तदोषप्रसङ्गादेव, तथैतद्दोषपरिहारायैव
Jain Education International
For Private & Personal Use Only
१२ विविक्तचर्याचूला
॥ २८१ ॥
www.jainelibrary.org